पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५५१ । उपोऽधिके च । (१-४-८७)

अधिके हीने च द्योत्ये उपेत्यव्यवं प्राक्संज्ञं स्यात् । अधिके, सप्तमी वक्ष्यते । हीने, उप हरिं सुरा ।

५५२। लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । (१-४-९०)

एष्वर्थेषु विषयभूतेषु प्रत्याद्य उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति परि-अनु वा विद्योतते विद्युत् । इत्थम्भूताख्याने , भक्तो विष्णु प्रति-परि अनु वा । भागे, लक्ष्मीर्हरिं प्रति-परि-अनु वा । हरेर्भाग इत्यर्थः ।


निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे त्क्तः । “ ओ हाक् त्यागे' इति धातोरोदित्त्वात् ओदितश्च' इति निष्ठानत्वम् । अनुः प्राग्वदिति । कर्मप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुराः इति । अत्र निकृष्टभावोऽनुद्योत्यो द्वितीयार्थः । तदाह । हरेर्हीना इत्यर्थः इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः । उपोऽधिके च । चकारात् हीने इति समुच्चीयते । तदाह । अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकामित्यर्थः । अधिके संज्ञाविधातं न द्वितीयार्थमित्याह । आधिके सप्तमी वक्ष्यते इति । “यस्मादधिकम्' इत्यनेन कर्म प्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यत इत्यर्थः । हीने इति ॥ उदाहरणं वक्ष्यते इति शेषः । उपहरिं सुराः इति । हरेहींना इत्यर्थः । लक्षणेत्थंभूत ॥ लक्षणं ज्ञापकम्, अयं प्रकारः इत्थं, तं प्राप्तः इत्थंभूतः, तस्याख्यानमुपपादकमित्थंभूताख्यानम्, भागः स्वीकार्योऽशः तत्स्वामी विवक्षितः, व्याप्तुं कात्स्येन सम्बङ्गुमिच्छा वीप्सा, लक्षणञ्च इत्थंभूताख्यानञ्च भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह । एष्विति ॥ एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्योत्यार्थत्वाभावादिति भावः । लक्षणे इति । उदाहरणं वक्ष्यते इति शेषः । वृक्षं प्रतीति ॥ लक्ष्यलक्षणभावसम्बन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युत् विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत् तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेण विद्युद्ज्ञानात् वृक्षो लक्षणम् । इत्थम्भूता ख्याने इति । उदाहरणं वक्ष्यत इति शेषः । भक्तो विष्णुं प्रतीति । भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्श आद्यच् , विषयतासम्बन्धः प्रत्यादिद्योत्यो द्वितीयार्थ तस्य भक्तावेकदेशेऽन्वयः, विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तः भक्तिरूपं प्रकाराविशेषं प्राप्तत्वात् इत्थम्भूतः, तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासम्बन्धस्तदुपपादकः प्रति द्योत्य इति ज्ञेयम् । भागे इति । उदाहरणं वक्ष्यत इति शेषः । लक्ष्मीर्हरिं प्रतीति ॥ स्वामित्वं द्वितीयार्थः प्रत्यादिद्योत्यः । तदाह । हरेर्भाग इत्यर्थः इति । हरेः स्वभूतेति