पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१८
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसंज्ञा बाधात् *गतिर्गतौ' (सू ३९७७) इति निघातो न ।

५५५ । सुः पूजायाम् । (१-४-९४)

सु सिक्तम्, सु स्तुतम् । अनुपसर्गत्वान्न षः । “ पूजायाम्' किम् । सुषित्तं किं स्यात् तवात्र । क्षेपोऽयम् ।

५५६ । अतिरातिक्रमणे च । (१-४-९५)

अतिक्रमणे पूजायां च अतिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान्कृष्णः।

५५७ । अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । (१-४-९६)

एषु द्योत्येष्वपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न ष:।


उक्तसंज्ञौ स्त इति ॥ कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽच्द्यागच्छति, कुतः पर्या गच्छतीति ॥ अत्र कुत इत्यपादानपञ्चम्यास्तसिल । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र आधिपर्योरनर्थकतया सम्बन्धस्य तद्दयोत्यत्वाभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्म प्रवचनीययुक्तत्वस्याभावान्न द्वितीयाप्रसक्तिरित्यत आह । गतिसंज्ञाबाधादिति । अत्र

  • गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये कुत इत्युपात्तमिति भावः । अत्र

प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवार्थान्तरद्योतकत्वाभावेऽपि धात्वर्थद्योतकत्वमस्येव। अर्थान्तरद्योतकत्वाभावेन अनर्थकत्वव्यवहारः । उक्तञ्च भाष्ये–“अर्थान्तरवाचिनौ धातुनो क्तक्रियार्मेवाहतुः” इति । एवञ्च क्रियायोगाभावात् गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता। सुः पूजायाम् ॥ कर्मप्रवचनीय इति शेषः । सु सिक्तं, सु स्तुतमिति । अत्र सोः कर्म प्रवचनीयत्वे प्रयोजनमाह । अनुपसर्गत्वान्न षः इति ॥ 'उपसर्गात् सुनोति' इत्यनेनेति शेषः । पूजायां किमिति । सुना पूजायाः नित्यं प्रतीतेः प्रश्रः । सुषिक्तं किं स्यात् तवात्रेति ॥ त्वया सम्यक् सिक्त किन्तु अत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चि दपीत्यर्थः । क्षेपोडयमिति ।। निन्दात्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य

एवात्र कर्मप्रवचनीयत्वम् । तदभावात् “उपसर्गात् सुनोति ’ इति षत्वामिति भावः । अतिरतिक्रमणे च ॥ चकारात् पूजायामिति समुच्चीयत इत्याह । पूजायाञ्चेति ॥ अतिक्रमणमुचितादाधिक्यम् । अति देवान् कृष्णः इति ॥ प्रपञ्चसंरक्षणविषये देवेभ्यो ऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्येऽर्थे 'कुगतिप्रादयः’ इति समासो न ।

  • स्वती पूजायाम्' इति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः । अपिः पदार्थ ॥ पदार्थश्च

सम्भावनञ्च अन्ववसर्गश्च गह च समुचयश्चेति द्वन्द्वः । एषु द्योतकतया विद्यमानः अपिः कर्मप्रवचनीय इत्यर्थः । तदाह । एष्विति ॥ अप्रयुज्यमानस्य पदान्तरस्यार्थः पदार्थः