पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४१९
बालमनोरमा ।

सम्भावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौलभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते । “ सर्पिषः' इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपि शब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम्, सम्भावनं शक्त्युत्कर्षमा


तद्दयोतकमपिमुदाहरति । सर्पिषोऽपि स्यादिति ॥ यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जानेभ्यो दीयते तदुपहासार्थमिदं वाक्यम्। अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह। अनुपसर्गत्वान्न षः इति ॥“उपसर्गप्रादुर्भ्याम्’ इत्यनेनेति शेषः। अपिद्योत्यं पदार्थ विशदयितुमाह। सम्भावनायां लिङिति ॥ ‘उपसंवादाशङ्कयोश्च' इति सूत्रे 'उपसंवादाशङ्कयोर्लिङ्’ इति पठितवचनेनेति शेषः । तत्र आशङ्का उत्कटान्यतरकोटका शङ्का । सम्भावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । असधातोश्च भवनमर्थः । अस भुवि' इत्युक्तेः । भवनश्च सत्ता । ‘भू सत्तायाम्’ इत्युक्तेः । ततश्च सम्भावनाविषयीभूतभवनार्थकादसधातोः कर्तरि लिङिः श्र्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च सम्भावनाविषयभवनाश्रयः कर्ता अवगतः, सच कर्ता क इत्याकाङ्क्षायां प्रकरणात् औचित्यात् सर्पिष इत्यवयवषष्ठीबलाञ्च बिन्दु रिति गम्यते, तमेवापिशब्दो द्योतयति, सच्च बिन्दुरपिशब्दध्योत्यः कर्ता प्रकृत्यर्थे सम्भावना विषये भवने स्वस्य बिन्दोदौर्लभ्यात् तदेव दौर्लभ्यं पुरस्कृत्यान्वेति । सम्भावनाविषयत्वबोधे दौर्लभ्यस्यापि सम्भावनाविषयतया अनुभवसिद्धत्वात्, तदिदं दौर्लभ्यमपिशब्दो द्योतयति । एवञ्च बिन्दोः कर्तृविशेषरूपेण स्वद्योत्योक्तदौर्लभ्यसम्बन्धेन स्यादित्यत्रान्वयः।तदाह । तस्या एवेति ॥ सम्भावनाया एवेत्यर्थः । कर्तुर्बिन्दोदौर्लभ्यात् भवनक्रियायां यत् दौर्लभ्यं तद्दयोतयन् अपिशब्दः स्यादित्यनेन सम्बध्यत इत्यर्थः । ननु सपेिरेव कर्तृत्वेनान्वेतु इत्यत आह । सर्पिषः इति ॥ सम्बन्ध इत्यनन्तरं वर्तत इति शेषः । एवञ्च सर्पिरवयवबिन्दुदौर्ल भ्यप्रयुक्तदौर्लभ्यवती बिन्दुकर्तृका सम्भावनाविषयीभूता सत्तेति बोधः । इयमेवेति ॥ विन्दु दौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनापिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह । द्वितीया तु नेति । कुत इत्यत आह । सर्पिष इति ॥ सर्पिषः बिन्दु नैव योगः, न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसन्दर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीय द्योत्यसम्बन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य सर्पिषः उक्तसम्ब न्धस्य बिन्दुरेव प्रतियोगी नतु सर्पिरिति भावः। तदेवं पदार्थद्योतकमपिमुदाहृत्य सम्भावना

द्योतकमपिमुदाहरति । अपि स्तुयाद्विष्णुमिति ॥ “सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे इति लिङ् । सम्भावनपदं व्याचष्टे । सम्भावनमित्यादिना ॥ अवाङमनसगोचरं विष्णु मपि स्तुयात् । स्तोतुं शक्त इत्यर्थः । अत्युक्तिरियम् । अवाङमनसगोचरस्य विष्णोः केनापि स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वेन उपसर्गत्वबाधात् “उपसर्गात् सुनोति' इति षत्वन्न।