पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

विष्कर्तुमत्युक्तिः । अपि स्तुहि, अन्ववसर्गः कामचारानुज्ञा । धिग्देवदत्तम् अपि स्तुयादृषळम्, गर्हा । आपे सिञ्च. अपि स्तुहि, समुचये ।

५५८ । कालाध्वनोरत्यन्तसंयोगे । (२-३-५)

इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः। क्रोशं कुटिला नदी । कोशमधीते । क्रोशं गिरिः । “ अत्यन्तसंयोगे' किम्। मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।

इति द्वितीया विभक्तिः ।


अन्ववसर्गद्योतकमपिमुदाहरति । अपि स्तुहीति ॥ तुहि वा न वा यथेष्टं कुर्वित्यर्थः । अन्व वसर्गपदं व्याचष्टे । अन्ववसर्गः कामचारानुज्ञेति ॥ 'प्रैषातिसर्ग ' इति लोट् । गर्हाद्यो तकमपिमुदाहरति । अपि स्तुयाद्वषळमिति ॥ “गर्हायां लडपिजात्वोः' इति लटं वाधित्वा परत्वादन्तरङ्गत्वाच्च सम्भावनायां लिङ् । अत्र दृषळस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमान मपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति । अपि सिञ्च, अपि स्तुहीति । अपिद्वयेन मिळितेन समुचयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वा दुभयत्रापि षत्वाभावः। सिञ्च, स्तुहि चेत्यर्थः । कालाध्वनोः ॥ इहेति ॥ कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः अत्यन्तसंयोगः । अन्तः विच्छेदः तमतिक्रान्तः अत्यन्तः स चासौ संयो गश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्यात् गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति । मासं कल्याणीति ॥ भवतीति शेषः । त्रिंशद्दिनात्मको मासः । तस्मिन्नविच्छि न्नमङ्गळवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति । मासमधीते इति ॥ त्रिंशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रव्यात्यन्तसंयोगे उदाहरति । मासं गुडधानाः इति ॥ मासे प्रतिदिनं निरन्तरं गुडधानास्सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्त संयोगे उदाहरति । क्रोशं कुटिला नदीत्यादि ॥ मासस्य द्विरिति ॥ मासे त्रिंशद्दि नात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारभित्येवं द्विरधीत इत्यर्थः । ‘द्वित्रिचतुभ्र्यस्सुच्’ इति द्वि शब्दात् कृत्योऽर्थे सुच् । 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ’ इति षष्ठी । शेषषष्ठीति केचित् । शिवरात्रौ जागृयात्' इत्यत्र तु अधिकरणत्वस्य विवक्षितत्वात् सप्तमीत्याहुः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तरिति तदाशयः ॥

इति द्वितीया विभक्तिः ।