पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९८

एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४२१
बालमनोरमा ।

अथ तृतीया विभक्तिः ।

५५९ । स्वतन्त्रः कर्ता । (१-४-५४)

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ।

५६० । साधकतमं करणम् । (१-४-४२)

क्रियासिद्धौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् । तमब्ग्रहणं किम् । गङ्गायां घोषः ।

५६१ । कर्तृकरणयोस्तृतीया । (२-३-१८)

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली । *प्रकृत्यादिभ्य उपसंख्यानम्’ (वा १४६६) । प्रकृत्या चारुः ।


अथ तृतीया विभक्तिः-स्वतन्त्रः कर्ता ॥ कारकाधिकारात् क्रियाजनने स्वातन्त्रय मिह विवक्षितमित्याह । क्रियायामिति ॥ स्वातन्त्रयमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्रयाभावादित्यत आह । विवक्षि तोऽर्थ इति ॥ “विवक्षातः कारकाणि भवन्ति' इति भाष्यादिति भावः । स्वातन्त्रयञ्च धात्व र्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारा धात्वर्थः । तत्र पचवतात्यत्र विक्लित्तिरूपफलाश्रये तण्डुले ऽतिव्याप्तिवारणाय व्यापारेति । उक्तञ्च हरिणा–“धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते” इति । धातूपातव्यापारवतीत्यर्थः । साधकतमं करणम् ॥ क्रियासिद्धाविति ॥ क्रियोः त्पत्तावित्यर्थः । कारकाधिकारलभ्यामिदम् । प्रकृष्टोपकारकमिति ॥ कर्त्रा क्रियायां जनयित व्यायां यत् सहायभूतं तदुपकारकमित्युच्यते । साधकतममित्यस्य व्याख्यानमेतत् । साधकशब्दात् ‘अतिशायने तमप्’ इति तमप्। अतिशयितं साधकं साधकतममिति भावः। यव्यापारानन्तरं क्रियानि ष्पत्तिः तत् प्रकृष्टम्। कर्तृव्यापाराधीनयव्यापाराव्यवहिता क्रियानिष्पत्तिः तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति ॥ साधकमित्येवोच्यताम् । कारकाधिकारादेव सिद्धे पुनस्साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोषः इति । अयमाशयः । कारकप्रकरणे गौणमुख्यन्यायः एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थ तमब्प्रहणम् । अन्यथा “ आधारो ऽधिकरणम्' इत्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्वहणसामर्थ्यात् सर्वावयवव्याप्त्या य आधारस्सोऽधिकरणमित्यर्थस्यात् । एवञ्च तिलेषु तैलं, दध्रि सर्पिरित्यादावेव स्यात् । गङ्गायां घोषः, कूपे गर्गकुलमित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् “ आधारोऽधिकरणम्' * सप्तम्यधिकरणे व ' इत्यत्र वक्ष्यते । कर्तृकरणयो स्तृतीया ॥ “अनभिहिते’ इत्यधिकारादाह । अनभिहित इति ॥ रामेणेति ॥ राम कर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसङ्खयानमिति ॥