पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
[कारके तृतीया
सिद्धान्तकौमुदीसहिता

प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः। समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ।

५६२ । दिवः कर्म च । (१-४-४३)

दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति।

५६३ । अपवर्गे तृतीया । (२-३-६)

अपवर्ग: फलप्राप्तिः, तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्वा क्रोशेन वा अनुवाकोऽधीतः । अपवर्गे किम् । मासमधीतो नायातः ।


तृतीयाया इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्तयपवादः । प्रकृत्या चारुरिति ॥ सम्बन्धस्तृतीयार्थः । प्रकृतिः स्वभावः, तत्सम्बन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवायमभिरूपः न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदा 'कर्तृकरणयोः' इत्येव सिद्धमिति भाष्यम् । प्रायेण याशिवक इति । प्रायशब्दो बहुळ वाची । बहुळाचारसम्बन्धियाज्ञिक्रत्ववानित्यर्थः । सम्बन्धश्च ज्ञाप्यज्ञापकभावः । बहुळेन आचा रेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु “इत्थम्भूतलक्षणे' इत्येव सिद्धम् । बहुळेन आचारेण सम्पन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गाग्यै इति ॥ गोत्रमस्य गाग्र्यं इत्यर्थः । अत्र प्रथमा प्राप्ता । “गोत्रेण हेतुना ज्ञाप्यगार्ग्यंत्ववानित्यर्थे तु इत्थम्भूतलक्षणे' इत्येव सिद्धम्” इति भाष्यम् । समेनैति, विषमेणैतीति । क्रियाविशे षणमेतत् । समं विषमञ्च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । “समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धम्” इति भाष्यम् । द्विद्रोणेन धान्यं क्रीणातीति ॥ द्वयोर्द्रोणयोस्समाहारः द्विद्रोणम् । पात्रादित्वान्न स्त्रीत्वम् । द्विद्रोणसम्बन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता । “यदा तु द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धम्” इति भाष्यम् । सुखेनेति । सुखजनकं यानं करोतीत्यर्थः । क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नान्ना सुतीक्ष्णः नामसम्बन्धिसुतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्य सुतीक्ष्णत्ववानित्यर्थे तु ‘इत्थम्भूतलक्षणे' इत्येव सिद्धम्। धान्येन धनवानित्यत्र तु अभेदस्तृतीयार्थः । धान्याभिन्नधनवानित्यर्थः। वह्नित्वेन वहिं जानामीत्यत्र तु प्रकारत्वं तृतीयार्थः । वह्नित्वप्रकारकवह्नि ज्ञानवानस्मीत्यर्थः । इत्याद्यूह्यम् । दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह । दिवस्साधकतममिति । दिवुधात्वर्थे प्रति साधकतममित्यर्थः । चादिति । चकारात् करणसंज्ञकमित्यपि लभ्यत इत्यर्थः । अपवर्गे तुतीया ॥ अपवर्गस्समाप्ति कर्मापवर्गे लौकिका अग्नयः' इत्यादौ दर्शनात् । इह तु फलप्राप्तिर्विवक्षिता। फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह । अपवर्गः फलप्राप्तिरिति ॥ कालाध्वनोः इति ॥ अनेन 'काला ध्वनोः' इति द्वितीयाया अयमपवाद इति सूचितम् । अह्नेति ॥ अह्नि क्रोशे वा निरन्तरम्