पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१००

एतत् पृष्ठम् परिष्कृतम् अस्ति
६१४
[सर्वसमास
सिद्धान्तकौमुदीसहिता

समासश्चतुर्धेति प्रायोवादः । अव्ययीभावतत्पुरुषबहुव्रीहिद्वन्द्वाधिकारबहि र्भूतानामपि “सह सुपा' (सू ६४९) इति विधानात् । पूर्वपदार्थप्रधानो ऽव्ययीभाव उत्तरपदार्थप्रधानस्तत्पुरुषः, अन्यपदार्थप्रधानो बहुव्रीहिः, उभय पदार्थप्रधानो द्वन्द्वः, इत्यपि प्राचां प्रवादः प्रायोऽभिप्रायः । “सूपप्रति

  • उन्मत्तगङ्गम्' इत्याद्यव्ययीभावे * अतिमालादौ' तत्पुरुषे, द्वित्रा:’ इत्यादि

बहुव्रीहौ, “दन्तोष्ठम्' इत्यादिद्वन्द्वे चाभावात् । तत्पुरुषविशेषः कर्मधारयः । तद्विशेषो द्विगुः । अनेकपदत्वं द्वन्द्वबहुव्रीह्योरेव । तत्पुरुषस्य क्वचिदेवेत्युक्तम् ।

सुपां सुपा तिङा नाम्ना धातुनाथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षङ्विधो बुधैः ।

सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः ।


वाक्यसदृशवृत्तिसमानार्थकत्वाभावात् गौण इत्याहुः । चतुर्धेति ॥ अव्ययीभावः, तत्पुरुषः बहुव्रीहिः, द्वन्द्वश्वेति, चतुर्विध इत्यर्थः । प्रायो वाद इति ॥ प्रायस् इत्यव्ययं बाहुळ्ये । बाहुळ्याभिप्रायकचातुर्विध्यप्रवाद इत्यर्थः । कुत इत्यत आह । अव्ययीभावेति ॥ बहि र्भूतानामपीति ॥ समासानामिति शेषः । प्रायोऽभिप्राय इति ॥ बाहुळ्यतात्पर्यक इत्यर्थः । सूपप्रतीति ॥ इह 'द्वन्द्वे च' इत्यनन्तरं श्रुतमभावादिति पदम् अव्ययीभावे इत्यनन्तरं तत्पुरुषे इत्यनन्तरं बहुत्व्रीहावित्यनन्तरं चान्वेति । सूपप्रतीत्यव्ययीभावे उत्तरपदार्थ प्रधानतया, उन्मत्तगङ्गं देश: लोहितगङ्गं देशः इत्यव्ययीभावेऽन्यपदार्थप्रधानतया पूर्वपदार्थ प्राधान्याभावादित्यर्थः । अतिमालादौ तत्पुरुषे पूर्वपदार्थप्रधानतया उत्तरप दित्यर्थः । द्वित्रा इति बहुव्रीहौ उभयपदार्थप्रधानतयाऽन्यपदार्थप्राधान्याभावादित्यर्थः । दन्तो ष्ठमित्यादिद्वन्द्वे समाहारस्यैव प्रधानतया उभयपदार्थप्राधान्याभावादित्यर्थः । तत्पुरुषविशेषः कर्मधारय इति ॥ 'तत्पुरुषस्समानाधिकरणः कर्मधारयः’ इत्युक्तरिति भावः । तद्विशेषो द्विगुरिति ॥ कर्मधारयविशेष इत्यर्थः । ‘सूङ्खयापूर्वो द्विगु’ इत्यादिरिति भावः । अनेक पदत्वमिति । द्वित्रिचतुरादिपदकत्वमित्यर्थः । “ अनेकमन्यपदार्थे' इति बहुव्रीहिगतस्या नेकग्रहणस्य द्वन्द्वविधावप्यनुवृत्तरिति भावः । क्वचिदेवेति । व्यहृजातावित्यादावित्यर्थः । इत्युक्तमिति ॥ भाष्यादाविति शेषः । किंचेति ॥ अव्ययमिदं विशेषान्तरप्रदर्शने । सुपां सुपेति । सुबन्तानां सुबन्तेन तिङा प्रातिपदिकेन धातुना च समासः । अथेति पूर्ववाक्यव्यवच्छेदे । तिङामिति ॥ तिङन्तानां तिङन्तेन सुबन्तेन च समाप्त इत्येवं षड्विधस्समासो ज्ञेय इत्यर्थः । सुपेति । सुपेत्यस्योदाहरणं वक्ष्यत इति शेषः। राज पुरुष इति । राज्ञ इत्यस्य षष्ठयन्तस्य पुरुष इति सुबन्तेन समासः । तिङेति ॥ सुपां ।