पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
शेषप्रकरणम्]
६१५
बालमनोरमा

धातुना, कटः । अजस्रम् । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा । कृन्त विचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । “ एही डादयोऽन्यपदार्थे च' इति मयूरव्यंसकादौ पाठात्समासः ।

इति सर्वसमासशेषप्रकरणम् ।


तिडेत्यस्योदाहरणं वक्ष्यत इत्यर्थः । पर्यभूषयदिति । ‘सह सुपा' इत्यत्र सहेति योग विभागात् परीति सुबन्तस्य तिङन्तेन समासः । नात्म्नेति । सुपां प्रातिपदिकेन समासे उदाहरणं वक्ष्यत इत्यर्थः । कुम्भकार इति । “उपपदमतिङ्’ इति कुम्भस्येति षष्ठयन्तस्य कारेति प्रातिपदिकेन समासः । “गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेः’ इत्युक्तेरिति भावः। धातुनेति ॥ सुपां धातुना समासे उदाहरणं वक्ष्यत इत्यर्थः । कटप्रूरिति ॥

  • केिब्वचिप्रच्छयायतस्तुकटप्रुजिश्रीणां दीर्घोऽसम्प्रसारणञ्च' इति वार्तिकेन “प्रु गतौ' इति

धातुना समासो निपातितः, नतु तिङन्तेनोपपदसमास इति भ्रमितव्यम् । क्लीब्विधाविह सप्तमीनिर्देशाभावेन उपपदत्वाभावात् । अथ सुपां धातुनोदाहरणान्तरमाह । अजस्रमिति।।

  • नमिकम्पिस्म्यजसकमिहिंसदीपो रः' इति सूत्रे रप्रत्ययविधौ जसधातुना सह नञ्समासो

निपातितः । तिङां तिङेति । समासे उदाहरणं वक्ष्यत इत्यर्थः । पिबतखादतेति । मयूरव्यंसकादित्वात् तिङन्तस्य तिङन्तेन समासः । तिङां सुपेति । समासे उदाहरणं वक्ष्यत इति शेषः । कृन्तविचक्षणेति । हे विचक्षण कृन्त छिन्धीत्यर्थः । इह तिङन्तस्य सुबन्तेन समासः कथमित्यत आह । एहीडादय इति । अत्र सुपां तिडेत्यनेनैव तिङां सुबन्तेनेत्यस्यापि ग्रहणात् समासस्य षड़्विधत्वं चिन्त्यम् । पञ्चविधत्वमेव युक्तम् । उभयत्रापेि सुप्तिङ्घटितत्वाविशेषादित्याहुः । अन्ये तु सुपां तिडेत्यनेन सुबन्तपूर्वपदकतिङन्तसमासस्य ग्रहणम् । तिङां सुबन्तेनेत्यनेन तु तिङन्तपूर्वपदकसुबन्तसमासस्य ग्रहणमित्याहुः ॥ इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां सर्वसमासशेषप्रकरणं समाप्तम् ।