पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०२

एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीरस्तु ।

९४० । ऋक्पूरब्धूःपथामानक्षे । (५-४-७४)

अ अनक्षे इति च्छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात्, अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः । अनृचबह्वृचावध्येतर्येव । नेह, अनृक्साम । बह्वृक्सूक्तम् । विष्णोः पूर्विष्णुपुरम् । क्लीबत्वं लोकात् । विमलापं सरः ।

९४१ । व्द्यन्तरुपसर्गेभ्योऽप ईत् । (६-३-९७)

अप इति कृतसमासान्तस्यानुकरणम् । षष्ठयर्थे प्रथमा । एभ्योऽपस्य ईत्स्यात् । द्विर्गता आपो यस्मिन्निति द्वीपम् । अन्तरीपम् । प्रतीपम् । समीपम् ।


अथ सर्वसमाससाधारणसमासान्ताः निरूप्यन्ते-ऋक्पूरब्धूः ॥ छेद् इति ॥ सूत्रे अ इति लुप्तप्रथमान्तनिर्देश इति भावः । समासान्त इत्यधिकृतम् । ऋगादिभिस्समासो विशेष्यते । तदन्तविधिः । तदाह । ऋगाद्यन्तस्येति ॥ ऋक्, पूर्, अप्, धूर्, पथिन् एतदन्तस्येस्यर्थः । अप्रत्यय इति ॥ अकारात्मकप्रत्यय इत्यर्थः । अक्षे या धूरिति ॥ अक्षसम्बन्धिनी या धूरित्यर्थः । सूत्रे सम्बन्धिनोऽधिकरणत्वविवक्षया अनक्षे इति सप्तमी । अनक्षे इति च धूर्शब्देनैव सम्बाध्द्यते । अन्यैरसम्भवादिति भावः । अर्धर्च इति ॥ ऋचोऽर्धमिति विग्रहः । अर्ध नपुसकम् इति समासः । अकारस्समासान्तः । ‘अर्धर्चाः पुंसि च' इति पुंस्त्वम् । अनृचबह्वृचावध्येतर्येवेति ॥ अविद्यमानाः ऋचः यस्येति विग्रहः । अनृचः केवलयजु रध्ध्येता । बहवः ऋचः यस्येति बह्वृचः ऋक्छाखी । इत्युदाहरणम् । अध्ध्येतर्थैवेति नियमस्य प्रयोजनमाह । नेहेति ॥ अनृक्सामेति ॥ विद्यमानाः ऋचः यस्येति विग्रहः । ऋच्य ध्यूढं प्रजापतेर्हदयं सामेति । बह्वृक्सूक्तमिति ॥ बहवो ऋचः यस्मिन्निति विग्रहः । अथ पूर्शब्दान्तस्योदाहरति । विष्णोरिति ॥ ननु पूर्शब्दस्य स्त्रीत्वात् 'परवल्लॅिङ्गम्' इति विष्णु पुरशब्दस्य स्रीत्वं युक्तमित्यत आह । क्लीबत्वं लोकादिति ॥ अथाप्शब्दान्तस्योदाहरति । विमलापं सर इति ॥ विमलाः आपः यस्मिन्निति विग्रहः । व्द्ययन्तरुप ॥ कृतसमासा न्तस्येति ॥ अकारप्रत्ययान्तस्येत्यर्थः । एभ्य इति । द्वि अन्तर् उपसर्गः एतेभ्य इत्यर्थः।