पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
]
६१७
बालमनोरमा

समापो देवयजनमिति तु समा आपो यस्मिन्निति बोध्यम् । कृतसमासान्त ग्रहणान्नेह, स्वप् । स्वपी । “ अवर्णान्ताद्वा' (वा ५०४५) । प्रेपम् । प्रापम्

९४२ । ऊदुनोर्देशे । (६-३-९८)

अनोः परस्यापस्य ऊत्स्याद्देशे । अनूपो देशः । राजधुरा । अक्षे तु अक्षधूः । दृढधूरक्षः । सखिपथौ, रम्यपथो देश


अपस्येति।। अकारप्रत्ययान्तस्याप्शब्दस्येत्यरर्थः । ईत्स्यादिति॥ * आदेः परस्य' इति परिभाषया आदेरकारस्येत्यर्थः । द्वयोर्गताविति ॥ द्वयोः पार्श्वयोर्गताः आपःयस्मिन्निति विग्रहः। व्यधिकरणपदो बहुव्रीहिः। अकारप्रत्ययः, ईत्वं सवर्णदीर्घश्च । अन्तरीपमिति अन्तर्गता आपो यस्मिन्निति विग्रहः । प्रतीपमिति ॥ प्रतिकूलाः आपो यस्मिन्निति विग्रहः। उपसर्गात् परत्वात् ईत्वम् । समीपमिति सङ्गताः आपो यस्मिन्निति विग्रहः । उपसर्गात् परस्योदाहरणान्तरमिदम् । समापो देवयजनमिति ॥ श्रुतिरेषा । अत्र उपसर्गात् परत्वा भावातू ईत्वं नेति भावः। देवा इज्यन्ते अस्मिन्निति देवयजनं, यज्ञभूमिः । समाप इति पुंस्त्वं छान्दसम् । भाष्ये तु समाप ईत्वं नेत्युका समापं नाम देवयजनमित्युदाहृत म् । तत्र समापशब्दो देवयजनविशेषवाच्येव विवक्षितः । समीपसमृद्धि, इति निर्देशात्, समीपमिति भाष्ये उदाहरणाच्च । स्वविति । शोभना आपो यस्येति विग्र न पूजनात्' इति समासा न्तनिषेधः। अकृत समासान्तत्वादीत्त्वन्न । स्वपी इति प्रथमाद्विवचनमिदम् । अवर्णा न्ताद्वेति ॥ अवर्णान्तादुपसर्गात् परस्यापस्य ईत्वं वा वक्तव्यमित्यर्थः । प्रेपम्, प्रापमिति।। प्रगता आपेो यस्येति विग्रहः । परेपम्, परापमिति ॥ परागता आपो यस्येति विग्रहः। ऊदनोर्देशे ॥ ईत्वस्यापवादः । ऊत् स्यादिति ॥ ‘आदेः परस्य’ इति ज्ञेयम् । अनूपो देश इति । अनुकूला आपः यस्मिन्निति विग्रहः । अप्रत्ययः, ऊत्त्वं, सवर्णदीर्घश्च । अनूपः इत्यत्र ऊपो अवग्रहार्थं दीर्घोच्चारणमिति भाष्यम् । बह्वृचास्तु अनूपो गोमान् गोभिरित्यत्र नावगृह्ण न्ति । तदेवं 'ऋक्पूः' इति सूत्रगतः अप्शब्दः प्रपश्चितः। अथ घृर्शब्दान्तस्योदाह्रति। राजधुरेति।। राज्ञो धूरिति विग्रहः । धूर्शब्दोऽत्र राज्यलक्षणे लाक्षणिकः । अकारप्रत्ययः। परवल्लिङ्गम्’ इति स्त्रीत्वम्। टाप् । अक्षे त्विति ॥ अक्षसम्बन्धिनी या धूस्तदन्तात् अकार प्रत्ययो न । अक्षधूरिति ॥ अक्षो नाम रथावयवदण्डविशेष यदग्रयोश्चक्रे आसज्येते तस्याक्षस्याग्रं धूः । अनेन ' अक्षे समासार्थे धुरो नाकारप्रत्ययः' इति व्याख्यानेऽत्र निषेधो न स्यादिति सूचितम् । दृढधूरक्ष इति दृढा धूर्यस्येति विग्रहः । एतेनाक्षे पूर्वपदे धुरो नाकारप्रत्यय इति व्याख्याने अत्र निषेधो न स्यादिति सूचितम् । तदेवं 'ऋक्पूः' इति सूत्रे

१. इदं च प्रकृतसूत्रे प्रापं परापम्’ इति “गतिश्च' इति सूत्रे 'प्रेपं परेपम्’ इति भाष्यो दाहरणलब्धमपि प्रपराविषयकमेवेति भाति 78