पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६१९
बालमनोरमा

१४५ । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्साम वाड्मनसाक्षिभ्रु वदारगवोर्वष्ठीवपदषठी वनक्तन्दिवरात्रिन्दिवाहर्दिवस रजसनिःश्रेयसपुरुषायुषद्यायुषव्द्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षो पशुनगोष्ठश्वाः । (५-४-७७)

एते पञ्चविंशतिरजन्ता निपात्यन्ते । आद्यास्रयो बहुव्रीह्यः । अविद्य मानानि चत्वारि यस्य, अचतुरः । विचतुरः । सुचतुरः । *त्र्युपाभ्यां चतुरो ऽजिष्यते' (वा ३३५१) । त्रिचतुराः । चतुर्णा समीपे उपचतुराः । तत एकादश द्वन्द्वा: । स्त्रीपुंसौ । धेन्वनडुहौ । ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्टीवन्तौ च ऊर्वष्टीवम् । निपातनाट्टिलोपः । पद्ष्टीवम् । निपातनात्पादशब्दस्य पद्भावः ।


भावादच् । पुंस्त्वं लोकात् । अचतुर ॥ आाद्यास्त्रयो बहुत्रीहय इति ॥ बहुव्रीहय एवेत्यर्थः । भाष्यवाक्यमिदम् । अचतुर इति ॥ 'नमोऽस्त्यर्थानाम्' इति विद्यमानपदलोपः । विचतुर इति ॥ विगतानि चत्वारि यस्येति विग्रहः । सुचतुर इति ॥ सु शोभनानि चत्वारि यस्येति विग्रहः । ‘न पूजनात्' इति निषेधो बाध्द्यते । त्रयुपाभ्यामिति ॥ वार्तिकमिदम् । त्रि उप आभ्यां परो यश्चतुर्शब्दस्तस्मादजिष्यते । त्रिचतुरा इति । त्रयो वा चतुरो वेति विग्रह । 'सङ्खययाव्ययासन्न' इति बहुव्रीहिः । “बहुव्रीहौ सङ्खये डच् इति डचं बाधित्वाऽच् । डचि तु टिलोपस्स्यात् । उपचतुरा इति ॥ त्रयः पञ्च वेत्यर्थः । “सङ्खयाव्य' इति बहुव्रीहिः । अच् । तत एकादश द्वन्द्वा इति ॥ द्वन्द्वा एवेत्यर्थः । इदमपि भाष्यवाक्यम् । स्त्रीपुंसाविति ॥ स्त्री च पुमांश्चेति विग्रहः । अच् । स्त्रीपुमां साविति न भवति । धेन्वनडुहाविति ॥ धेनुश्च अनड्वांश्चेति विग्रहः । अच् । धेन्वन ड्वाहाविति न भवति । समाहारद्वन्द्वे तु 'द्वन्द्वाच्चुदषहान्तात्' इत्येव सिद्धम् । ऋक्सामे इति ॥ ऋक्च साम चेति विग्रहः । अचू, टिलोपः । ऋक्सामनी इति न भवति । वाड्मनसे इति ॥ वाक् च मनश्चेति विग्रहः । अच् , वाङ्मनसी इति न भवति । अक्षिभ्रुवमिति ॥ अच्, प्राण्यङ्गत्वादेकंवत्त्वम् । अक्षिभ्रु इति न भवति । दारगवमिति ॥ समाहारद्वन्द्वा दच् । दारगु इति न भवति । इतरेतरयोगद्वन्द्वे तु दारगवः । ऊर्वष्ठीवमिति ॥ प्राण्यङ्गत्वादेकवत्त्वम् । ऊरू सक्थिनी। अष्ठीवन्तौ जानुनी । “सक्थि क्लीबे पुमानूरुः” इति । “जानूरुपर्वाष्ठीवदस्त्रियाम्” इति चामरः । नन्वडित्वादनान्तत्वाच्च कथं टिलोप इत्यत आह । निपातनाट्टिलोपः इति ॥ पदष्टीवमिति ॥ पादौ चाष्ठीवन्तौ चेति द्वन्द्वादच् ।