पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६२०
[
सिद्धान्तकौमुदीसहिता

नक्तं च दिवा च नक्तन्दिवम् । रात्रौ च दिवा च रात्रिन्दिवम् । रात्रेर्मा न्तत्वं निपात्यते । अहनि च दिवा चाहर्दिवम् । वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः । सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् । निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह । निःश्रेयान्पुरुषः । पुरुषस्यायुः पुरुषायुषम् । ततो द्विगुः । व्द्यायुषम् । त्र्यायुषम् । ततो द्वन्द्वः । ऋग्यजुषम् । ततस्त्रयः कर्मधारयाः । जातौक्षः । महोक्षः । वृद्धोक्षः । शुनः समीपमुपशुनम् । टिलोपाभावः सम्प्रसारणं च निपात्यते । गोष्टे श्वा

{{rule}

प्राण्यङ्गत्वादेकवत्वम् । नन्वभत्वात् कथामह पादशब्दस्य पद्भावः इत्यत आह । निपात नादिति ॥ नक्तमिति मान्तमव्ययम् । दिवेत्याकारान्तमव्ययम् । नक्तंदिवेति द्वन्द्वादच् । ‘यस्येति च' इत्याकारलोपः, “अव्ययीभावश्च' इत्यव्ययत्वम्, नपुंसकत्वं च । “नाव्ययीभावात् इत्यम्भावः । मान्तत्वमिति ॥ रात्रौ च दिवा चेतेि द्वन्द्वे कृते सुब्लुकि कृते रात्रेर्मान्तत्वं निपात्यत इत्यर्थः । “यस्येति च' इति लोपः । अम्भावश्च । अहर्दिवमिति । द्वन्द्वे कृते सुब्लुकि “लुका लुप्ते प्रत्ययलक्षणं न ” इत्यनेन प्रत्ययलक्षणाभावात् “रोऽसुपि' इति रत्वम् अच्, “यस्येति च' इत्याकारलोपः, अम्भावश्च । नन्वहन्शब्दार्थस्य दिवाशब्दार्थस्य च एकत्वात् साहित्याभावात् कथमिह द्वन्द्वः । अहर्व्यक्तिभेदमादाय द्वन्द्वप्रसक्तावपि ‘विरूपाणामपि समानार्थकानाम्' इत्येकशेषो दुर्वार इत्यत आह । वीप्सायां द्वन्द्वो निपात्यत इति ॥ नित्यवीप्सयोः’ इति वीप्सायां द्विर्वचने कृते एकशेषं बाधित्वा द्वन्द्वो निपात्यते इत्यर्थः । अव्ययीभावे' इति भाष्ये तथावचनात् अव्ययीभावस्य ग्रहणमिति भावः । सरजसमिति । रजोऽप्यपरित्यज्य इत्यस्वपदविग्रहः । रजः धूळिः साकल्ये सहशब्दस्य रजश्शब्देनाव्ययी भावः । “ अव्ययीभावे चाकाले' इति सहशब्दस्य सभावः । अच् । सरजः पङ्कजमिति । रजोभिः परागैस्सहेति विग्रहे “तेन सहेति तुल्ययोगे' इति बहुव्रीहिः । “वोपसर्जनस्य' इति सहस्य सः । बहुव्रीहित्वात् नाच् । निःश्रेयसमिति । कर्मधारयादच् । तत्पुरुष एवति । तथा भाष्यादिति भावः । निःश्रेयानिति । निश्चितं श्रेयो यस्येति बहुव्रीहि त्वान्नाच् इति भावः । 'ईयसश्च' इति निषेधान्न कप् । पुरुषायुषमिति । षष्ठीसमासात् अजिति भाष्यम् । ततो द्विगुरिति । भाष्यवाक्यमिदम् । व्द्यायुषम्, त्र्ध्यायुषमिति । द्वयोरायुषोस्समाहार इति त्रयाणामायुषां समाहार इति च विग्रहः । ‘तद्धितार्थे' इति द्विगोरच् । ततो द्वन्द्व इति । भाष्यवाक्यमिदम् । ऋग्यजुषमिति । ऋचश्च यजूंषि चेति समाहारद्वन्द्वः ।ततस्त्रयः कर्मधारया इति ॥ तथा भाष्यादिति भावः । जातोक्ष

इति भाष्यादिति

इति । जातश्चासावुक्षा चेति विग्रहः । अचि सत्युक्षन्शब्दे टिलोपः । महोक्ष इति ॥ महांश्चासावुक्षा चेति विग्रहः । “आन्महतः' इत्यात्त्वम् । अचि टिलोपः । वृद्धोक्ष इति ॥ वृद्धश्वासावुक्षा चेति विग्रहः । अचि टिलोपः । उपशुनमिति ॥ ‘अव्ययीभावादच्’ इति