पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६३२
[अलुक्समास
सिद्धान्तकौमुदीसहिता

९८० । पुत्त्रेऽन्यतरस्याम् । (६-३-२२)

षष्ठयाः पुत्त्रे परऽलुग्वा निन्दायाम् । दास्या:पुत्त्रः-दासीपुत्त्र । निन्दायाम्' किम् । ब्राह्मणीपुत्त्रः ।

९८१ । ऋतो विद्यायोनिसम्बन्धेभ्यः । (६-३-२३)

विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तात्षष्ठया अलुक् । हातुरन्ते वासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्त्रः । “विद्यायोनिसम्बन्धेभ्यः स्तत्पूर्वोत्तरपद्ग्रहणम्' (वा ३९०३) । नेह, होतृधनम् ।

९८२ । विभाषा स्वसृपत्योः । (६-३-२४)

ऋदन्तात्षष्ठया अलुग्वा स्वसृपत्योः परयो

९८३ । मातुःपितुभ्र्यामन्यतरस्याम् । (८-३-८५)

आभ्यां स्वसुः सस्य षा वा स्यात्समासे । मातुःष्वसा-मातुःस्वसा । पितुःष्वसा-पितुःस्वसा । लुक्पक्षे तु ।


ऋषिविशेषाणां संज्ञा एताः । दिवश्च दासे इति ॥ वार्तिकम् । षष्ठया अलुगिति शेषः । दिवो दास इति ॥ कश्चिद्राजर्षिरयम्। पुत्त्रेऽन्यतरस्याम् ॥ निन्दायामिति ॥ आक्रोशे इत्यनु वृत्तिलभ्यमिदम्। स्पष्टंचेदम् “ आनङ्कतः' इत्यत्र भाष्ये। ऋतो विद्या ॥ एकत्वे बहुवचनम् । तदाह । विद्यासम्बन्धयोनिसम्बन्धवाचिनः ऋदन्तादिति ॥ अलुक् स्यादिति ॥ उत्तरपदे परत इति शेषः । विद्यासम्बन्धवाचिनमुदाहरति । होतुरन्तेवासीति ॥ ऋग्वेद विहितकर्मविशेषकर्ता होता । अतो होतृशब्दः विद्यासम्बन्धप्रवृत्तिनिमित्तक इति भावः । होतुः पुत्र इति ॥ विद्यासम्बन्धवाचिनः उदाहरणान्तरमिदम् । अथ योनिसम्बन्धवाचिन मुदाहरति । पितुरन्तेवासीति । पितुःपुत्र इति च ॥ ननु होतृधनं पितृधनामित्यत्रा प्यलुक् स्यादित्यत आह । विद्यायोनिसम्बन्धेभ्यः तत्पूर्वोत्तरपद्ग्रहणमिति ॥ विद्यायोनिसम्बन्धेभ्यः इत्यत्र विद्यासम्बन्धयोनिसम्बन्धवाचिनोः पूर्वोत्तरपदयोः ग्रहणमि त्यर्थः । पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसम्बन्धान्यतरवाचित्वं विवक्षितमिति भावः । होतृधनं पितृधनमित्यत्र उत्तरपदस्य विद्यायोनिसम्बन्धान्यतरवाचित्वाभावात् न षष्ठया अलुगिति भावः । अन्यतरसम्बन्धवाचित्वस्य विवक्षितत्वादेव होतुःपुत्र इत्यादि सिद्धम् । विभाषा स्वस्पत्योः ॥ ऋदन्तादिति ॥ विद्यायोनिसम्बन्धान्यतरवाचिन इति शेषः । ततश्च भोक्तृस्वसेत्यत्र नातिव्याप्तिः । पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । अलुक्पक्षे विशेषमाह । मातुःपितुर्भ्यामन्यतरस्याम् ॥ 'मातृपितृभ्यां स्वसा' इति पूर्वसूत्रात् स्वसेत्यनुर्तते । षष्ठ्यर्थे प्रथमा । 'सहेस्साडस्सः' इति सूत्रात्स इति षष्ठयन्तं पदमनुवर्तते । “ अपदान्तस्य मूर्धन्यः' इत्यधिकृतम् । तदाह । आाभ्यामिति ॥ मातुःपितुरिति षष्ठयन्ताभ्यामिति