पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

चानुपसर्जने न' (प २७) इति तदादिनियमप्रतिषेधात् । परमकारीषगन्धी पुत्रः । उपसर्जने तु तदादिनियमान्नेह । अतिकारिषगन्ध्यापुत्रः ।

१००५ । बन्धुनि बहुव्रीहौ । (६-१-१४)

बन्धुशब्दे उत्तरपदे ष्यङः सम्प्रसारणं स्याद्वहुव्रीहौ । कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः । “बहुव्रीहौ' इति किम् । कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्लीवनिर्देशस्तु शव्दस्वरूपापेक्षया । “मातञ्मातृ कमातृषु वा' (वा ३४४९) । कारीषगन्धीमात:-कारीषगन्ध्यामातः ।


गन्धशब्दस्य लोपश्च । “ उपमानाच्च' इति इत्वम् । कुमुद्गन्धेरपत्यं स्त्री इत्यर्थे तस्यापत्य मित्यण् । “आणिञोरनार्षयोः' इति तस्य ध्यङादेशः । “यस्येति च' इति इकारलोपः । आदि वृद्धिः । यडश्चाप् । कौमुदगन्ध्याशब्द इति भावः । कौमुदगन्ध्यायाः पुत्रोऽयमिति षष्ठीसमासः । सुब्लुकि कौमुदगन्ध्या पुत्र इति स्थिते ष्यङस्सम्प्रसारणेन यकारस्य इकारः । तस्य तदुत्तरा कारस्य च “सम्प्रसारणाच्च' इति पूर्वरूपंण इकारे “ सम्प्रसारणस्य 'इति दीर्घे कौमुदगन्धीपुत्र इति रूपमिति भावः । ‘हलः’ इति दीर्घस्य तु नात्र प्रसक्तिः । अत्र प्रत्ययस्य लुका लुप्तत्वात् इत्याहुः । कौमुदगन्धीपतिरिति । कौमुदगन्ध्यायाः पतिरिति विग्रहः । पूर्ववत्प्रक्रिया । 'इको ह्रस्वो ऽङयो गालवस्य' इति पाक्षिकं ह्रस्वमाशङ्कय आह । व्यवस्थितविभाषया ह्रस्वो नेति ॥ अत्र तु व्याख्यानमेव शरणम् । स्यादेतत् । करीषङ्गोमहिषादिपुरीषम्, करीषगन्ध इव गन्धो यस्य सं: करीषगान्धिः, तस्यापत्य स्त्री कारीषगन्ध्या, परमा च सा कारीषगन्ध्या च परमकारीषगन्ध्या, तस्याः पुत्रः परमकारीषगन्धीपुत्रः इत्यत्रापि ष्यडस्संप्रसारणं तस्य दीर्घश्चेति स्थितिः । अत्र सम्प्रसारणं दुर्लभम् । ष्यङः कारीषगन्धीशब्दादेव विहितत्वेन परमकारीषगन्ध्या शब्दस्य सपूर्वपदस्य ष्यङन्तत्वाभावात्प्रत्ययग्रहणे यस्मात्स विहितस्तदादेवैस्तदन्तस्य च ग्रहणा दित्यत आह । स्त्रीप्रत्यये चेति ॥ ष्यङः स्त्रियां विहितत्वात् स्त्रीप्रत्ययः । ततश्च “ स्त्रीप्रत्यये चानुपसर्जने न' इति परिभाषया तदादिनियमाभावात्परमकारीषगन्ध्याशब्देऽपि ष्यङन्त एवेति तत्र सम्प्रसारणे दीर्घे च परमकारीषगन्धीपुत्रः इति रूपमिति भावः । इयम्परिभाषा ‘ष्यङस्सम्प्र सारणम्’ इति प्रकृतसूत्रे भाष्ये पठिता । तत्रानुपसर्जनग्रहणस्य प्रयोजनमाह । उप सर्जने त्विति ॥ कारीषगन्ध्यामतिक्रान्तः अतिकारीषगन्ध्यः, * अत्यादयः' इति समासे उपसर्जनह्रस्वः । तस्य पुत्रः अतिकारीषगन्ध्यापुत्रः । अत्र “स्त्रीप्रत्यये तदादिनियमो न' इति निषेधो न भवति । अनुपसर्जन एव स्त्रीप्रत्यये तस्य निषेधस्य प्रवृत्तेः । ष्यङ्त्वयं स्रीप्रत्ययोऽत्र उपसर्जन एव । अतस्तत्र तदादिनियमसत्त्वात् अतिकारीधगन्ध्याशब्दो नैव ष्यङन्त इति न सम्प्रसारणमिति भावः । बन्धुनि बहुव्रीहौ ॥ कारीषगन्धीबन्धुरिति ॥ अत्र पत्युत्तरपदत्वाभावात्तत्पुरुषत्वाभावाच्च पूर्वेण न प्राप्तिः । मातञ्जमातृकमातृषु वेति ॥ वार्तिकमिदम् । मातच्, मातृक, मातृ, एषु परेषु ष्यङस्सम्प्रसारणं वा वक्तव्यमित्यर्थः । मातचि उदाहरति । कारीषगन्धीमातः । कारीषगन्ध्यामातः इति ॥ मातृशब्दस्य