पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३

पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५२७
बालमनोरमा

अस्तमिति मान्तमञ्ययं गतिसंज्ञं स्यात् । अस्तंगत्य ।

७७० । अच्छ गत्यर्थवदेषु । (१-४-६९)

'अव्ययम्' इत्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । 'अव्ययम्’ किम् । जलमच्छं गच्छति ।

७७१ । अदोऽनुपदेशे । (१-४-७०)

अदःकृत्य, अदःकृतम्। परं प्रत्युपदेशे प्रत्युदाहरणम् । अदः कृत्वा, अदः कुरु ।

७७२ । तिरोऽन्तर्धौ । (१-४-७१)

तिरोभूय

७७३ । विभाषा कृञि । (१-४-७२)

तिरस्कृत्य-तिर:कृत्य-तिरः कृत्वा ।

७७४ । उपाजेऽन्वाजे । (१-४-७३)

एतौ कृञि वा गतिसंज्ञौ स्तः । उपाजेकृत्य-उपाजे कृत्वा । अन्वाजेकृत्य-अन्वाजे कृत्वा । दुर्बलस्य बलमाधायेत्यर्थः


अस्तङ्गत्येति ॥ तिरोधानं प्राप्येत्यर्थः । अव्ययं किं, काण्डम् अस्तं कृत्वा । प्रक्षिप्तं कृत्वेत्यर्थः ।अच्छ गत्यर्थवदेषु ॥ गत्यथधातुषु वदधातौ च प्रयुज्यमानेषु अच्छेत्यव्ययं गतिसंज्ञ स्यात् । अच्छगत्येति ॥ गतेसमासे त्का ल्यप् । अच्छोद्येति ॥ वदधातोः त्का । गतिसमासे त्को ल्यप् । अच्छेत्यव्ययभिमुख्ये । तद्यथा। बर्हिरच्छेतीति । तदाह । अभिमुखमिति ॥ जलमच्छं गच्छतीति ॥ अत्राच्छशब्दस्य नाव्ययत्वम्, न गतिसंज्ञा, नापि प्रग्रीश्वरान्निपाताः इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वात् विभक्तिलुक् स्यादिति भावः । अदोऽनुपदेशे ॥ अदश्शब्दः अनुपदेशे गतिसंज्ञस्यात् । अदकृत्येति ॥ गतिसमासे त्को ल्यप् । अमुं यज्ञं कृत्वेत्यर्थे तु सुब्लुक् च । अदकृतमिति ॥ 'गतिरनन्तरः' इति खरxफलम् । यदा स्वयमेव पर्यालोचयति तदेदमुदाहरणम् । परं प्रतीति ॥ अदः कुर्वित्यादावित्यर्थः । तिरोऽन्तर्धौ ॥ अन्तर्धिः व्यवधानम्, तत्र तिरस् इत्यव्ययं गतिसंज्ञकं स्यादित्यर्थः । तिरोभूयेति ॥ गतिसमासे त्को ल्यप् । व्यवहितो भूत्वेत्यर्थः । विभाषा कृञि ॥ कृत्रि प्रयुज्यमाने तिरस् इत्यव्ययं गतिसंज्ञं वा स्यादित्यर्थः । तिरकृस्त्य तिरस्कृत्येति ॥ गतिसंज्ञापक्षे गतिसमासे त्को ल्यप् । 'तिरसोऽन्यतरस्याम्' इति सत्वविकल्पः । तिर-कृत्वेति ॥ गतित्वाभावपक्षे सत्वमपि न भवति । तद्विधौ गतिग्रहणानुवृत्तेरित्याहुः । केचित्तु तिरस्कार इति परिभवे प्रयोगदर्शनातू सत्वावधौ गतिग्रहणं नानुवर्तयन्ति । उपाजेऽन्वाजे ॥ उपाजे कृत्येति ॥ गतिसंज्ञापक्षे गतिसमासे त्को ल्यप् । अन्वाजेकृत्येत्यपि तथैव । उपाजे, अन्वाजे