पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३०

एतत् पृष्ठम् परिष्कृतम् अस्ति
६४४
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

सनुताद्यत्' (सू ३४६०) । 'अमूर्धादिषु' किम् । समानमूर्धा । समान प्रभृतयः । समानोदर्काः । “ समानस्य' इति योगो विभज्यते । तेन सपक्षः साधर्म्यै सजातीयमित्यादि सिद्धमिति काशिका । अथवा सहशब्दः सदृश वचनेोऽस्ति । सदृशः सख्या ससखीति यथा । तेनायमस्वपदविग्रहो बहुव्रीहिः । समानः पक्षोऽस्येत्यादि ।

१०१३ । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण वयोवचनबन्धुषु । (६-३-८५)

एषु द्वादशसूत्तरपदेषु समानस्य सः स्यात् । सज्योतिः । सजनपदः,इत्यादि ।

१०१४ । चरणे ब्रह्मचारिणि । (६-३-८६)


इत्यर्थः । सयूथ्य इति ॥ समाने यूथे भव इत्यर्थः । सनुत्य इति ॥ समाने नु ते भवः इत्यर्थः । सर्वत्र * तद्धितार्थ' इति समासे समानस्य सभावः । समान मूर्धति ॥ समानो मूर्धा यस्येति विग्रहः । समानप्रभृतय इति ॥ समानः प्रभृति राद्यवयवो येषामिति विग्रहः । समानोदर्का इति । समानः उदर्कः येषामिति विग्रहः । तैत्तिरीये “सजूर्ऋतुभिः, सजूर्विधाभिः, सजूर्वसुभिः, सजूरुत्रैः, सजूरादियैः, सजूर्विश्वैर्देवैः, सजू देंवैः, सजूर्देवैर्वयोनाथैरग्नये त्वा वैश्वानरायाश्विनाध्वर्यु सादयतामिह त्वा” इति मन्त्रास्संसृष्टाः पञ्च पठिताः । पञ्चस्वपि मन्त्रषु सजूर्त्रतुभिः, सजूर्विधाभिरित्ययम् आद्यवयवः सजूर्देवैर्वयो नाथैरित्यन्तावयवश्च समानः, सजूर् इत्यादिपञ्चानां एकैकस्य क्रमेण एकैकस्मिन् मन्त्रे मध्ये निवेश इति याज्ञिकमर्यादा । ननु लोके सपक्षादिशब्देषु कथं समानस्य सभाव इत्यत आह । समानस्येति योगो विभज्यते इति ॥ तथाच समानस्य सः स्यादिति वाक्यान्तरं सम्पद्यते । तत्र छन्दसीत्ययभावाल्लोकेऽपि क्वचिद्रवतीति लभ्यते इति भावः । सपक्ष इति ॥ समानः पक्षो यस्येति विग्रहः । साधर्म्यमिति ॥ समानो धर्मो यस्य सः सधर्मा समानस्य सभावः । तस्य भावस्साधर्म्यम् । ब्राह्मणादित्वात् ष्यञ् । सजातीयमिति ॥ समाना जातिर्यस्य इति विग्रहः । समानस्य “जात्यन्ताच्छ बन्धुनि' इति छः । इत्यादीति ॥ सग्राम इत्यादिसङ्ग्रहः । योगविभागस्य भाष्यादृष्टत्वात् युक्तयन्तरम् आह । अथवेति ॥ तेनेति ॥ तेन सदृशवचनेन सहशब्देन बहुव्रीहिरित्यन्वयः । तथाच “वोपसर्जनस्य' इति सहस्य सभावः इति भावः । ननु तर्हि समानः पक्षः यस्य इति कथं विग्रहः । सहशब्दस्यैव विग्रहे प्रवेशौचित्यादित्यत आह अस्वपद इत वृत्तावेव सहशब्दस्सदृशवचन इति भावः । ज्योतिर्जनपद ॥ अच्छन्दोऽर्थे वचनमिदम् । सज्योतिरिति ॥ समानं ज्योतिर्यस्यति विग्रहः । एवं सजनपद इत्यादीति ॥ सरात्रिः, सनाभिः, सनामा सगोत्रः, सरूपः, सस्थानः, सवर्णः, सवयाः, सवचनः, सबन्धुः । चरणे ब्रह्मचारिणि ॥