पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६४५
बालमनोरमा

ब्रह्मचारिण्युत्तरपदे समानस्य सः स्याच्चरणे समानत्वेन गम्यमाने । चरण: । ब्रह्म वेदः । तद्ध्ययनार्थे व्रतमपि ब्रह्म, तच्चरतीति ब्रह्मचारी । ३शाखा समानस्य स: सब्रह्मचारी ।

१०१५ । तीर्थे ये । (६-३-८७)

तीर्थे उत्तरपदे यादौ प्रत्यये विवक्षिते समानस्य सः स्यात् । सतीर्थ्यः । एकगुरुकः । “समानतीर्थे वासी' (सू १६५८) इति यत्प्रत्ययः ।

१०१६ । विभाषोदरे । (६-३-८८)

यादौ प्रत्यये विवक्षिते इत्येव । सोदयैः-समानोदर्यः ।

१०१७ । दृग्दृशवतुषु । (६-३-८९)


समानस्येति स इति चानुवर्तते । उत्तरपद इत्याधकृतम् । तदाह।ब्रहमचारिण्युत्तरपदे समानस्य सः स्यादिति ॥ चरणे इति सप्तमी समानस्येत्यत्रान्वेति । चरणे विद्यमा नस्येत्यर्थः । फलितमाह । चवरणे समानत्वेन गम्यमाने इति ॥ तत्र चरणपदं व्याचष्टे । चरणश्शाखेति ॥ वैदिकप्रसिद्धिरेवात्र मूलम् । ब्रह्मचारिपदनिर्वृत्तिमाह । ब्रह्म वेद इति ॥ “वेदस्तत्वं तपा ब्रह्म' इत्यमर । तञ्चरणार्थमिति ॥ तस्य वेदस्य चरणम् अध्ययनं तच्चरणं व्रतमपि ब्रह्मशब्देन विवक्षितमित्यर्थः । गौण्या वृत्त्येति शेषः । तञ्चरतीति ॥ तत् व्रतं चरति अनुतिष्ठतीत्यर्थे ब्रह्मचारिशब्द इत्यर्थ । “सुप्यजातौ' इंति णिनिः । समानस्य स इति । समानो ब्रह्मचारीति कर्मधारये सति प्रकृतसूत्रेण समानस्य सभावे सति सब्रह्मचारीति रूपमित्यर्थः । समानत्वञ्च वेदद्वारा बोध्यम् । तथाच समानवेदाध्ययनार्थ व्रतचारीति फलितोऽर्थः। भाष्ये तु समाने ब्रह्मणि व्रतं चरतीत्यर्थे चरेर्णिनिः व्रतशब्दस्य लोपश्च अत्र निपात्यते इत्युक्तम् । तीर्थे ये ॥ यशब्दात् अकारा न्तात्सप्तम्येकवचनम्, अकारो न विवक्षितः, प्रत्यय इति विशेष्यमध्याहार्यम् । “यस्मिन् विधि ’ इति तदादिविधिः । तदाह । यादौ प्रत्यये इति ॥ नात्र यप्रत्ययान्ते तीर्थशब्दे परे इति व्याख्यातुं शक्यते । “समानतीर्थे वासी' इति समानतीर्थशब्दात् “तद्धितार्थ' इति कृतसमासादेव यप्रत्ययविधानात् । स च यप्रत्ययः अन्तरङ्गे सभावे कृते एव भवति । “समर्थनाम्प्रथमाद्वा इति सूत्रेण परिनिष्ठितादेव तद्धितोत्पत्तेर्वक्ष्यमाणत्वात् कृतेऽपि सभावे एकदेशविकृतन्यायेन भूतपूर्वगत्या वा समानतीर्थशब्दसत्वात् । । अतः यप्रत्ययपरकत्व समानशब्दस्य कथामत्यत आह सतीथ्र्य इति ॥ समाने तीर्थेे वासीत्यर्थः । अत्र सामीप्ये सप्तमी । समानशब्दस्त्वेकपर्यायः । तीर्थशब्दो गुरौ । तदाह । एकगुरुक इति ॥ तद्धितार्थे समासप्रवृत्तये तद्धितन्दर्शयति । समानेति ॥ “निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । विभाषोदरे ॥ उदरशब्दे परे समानस्य सभावो वा स्यादित्यर्थः । इत्येवेति ॥ अनुवर्तत एवेत्यर्थः । दृग्दृशवतुषु ॥