पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६५१
बालमनोरमा

कर्णशब्दे परे लक्षणवाचकस्य दीर्घः । द्विगुणाकर्णः । “ लक्षणस्य किम् । शोभनकर्ण : । “ अविष्टादीनाम्' किम् । विष्टकर्णः । अष्टकर्ण । पञ्चकर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः।

१०३७ । नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । (६-३-११६)

क्विबन्तेषु परेषु पूर्वपदस्य दीर्घः । उपानत् । नीवृत्। प्रावृट् । मर्मावित् । नीरुक् । अभीरुक् । ऋतीषट् । परीतत् । 'क्वौ' इति किम् । परिनहनम् ।

  • विभाषा पुरुषे' (सू १०३२) इत्यतो मण्डूकप्लुत्या * विभाषा' अनुवर्तते ।

सा च व्यवस्थिता । तेन गतिकारकयोरेव । नेह । पटुरुक् । तिग्मरुक् ।

१०३८। वनगिर्योः संज्ञायां कोटरकिंशुलुकादीनाम्। (६-३-११७)

कोटरादीनां वने परे, किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ।

१०३९ । वनं पुरगामिश्रकासिध्रकाशारिकाकोटराग्रेभ्यः । (८-४-४)

.


कर्णौ यस्येति विग्रहः। अष्टकर्णः इत्यादेरष्टसङ्ख्यालिपिचिह्नकर्ण इत्यादिरर्थः। अष्टसङ्खया करेखाचिह्नकर्ण इति वा । नहिवृति । उपानदिति । “णह बन्धने ' ' णो नः सम्पदादित्वात्कर्मणि क्लिप् । उपनह्यते इत्युपानत् । पूर्वपदस्य दीर्घः । “नहो धः' निवर्तते इति नीवृत् वृतु वर्तने' कर्तरि क्विप्, दीर्घः । प्रवर्षतीति प्रावृट्। वृष सेचने' क्विप्, दीर्घ । मर्माणि विध्यतीति मर्मावित् । क्विप्, “ग्रहिज्या' इति सम्प्रसारणम् । उपपद समासः, सुब्लुक्, नलोपः, दीर्घः। निरोचते इति नीरुक्, “रुच दीप्तौ' क्विप् , दीर्घः । ऋतिं सहते इति ऋतीषट । “षह मर्षणे' क्विप्, दीर्घः, 'हो ढः’ “सात्पदाद्योः' इति षत्वनिषेधे प्राप्ते पूर्वपदात्’(वैदिक.) इति षत्वमिति हरदत्तः । सुषामादित्वादित्यपरे। परितनोतीति परीतत्।'तनु विस्तारे 'क्विप्, “गमः क्वौ' इत्यत्र गमादीनामित्युपसङ्खयानात् अनुनासिकलोपः । तुक्, दीर्घः, अथ पटुरुक्, तिग्मरुगित्यादौ दीर्घमाशङ्कय आह । विभाषेति । पटुरुगिति ॥ पटु रोचते इति विग्रहः । उभयत्र कर्तरि क्विप् । पूर्वपदयोर्गतिकारकान्यतरत्वाभावान्न दीर्घः । व्यवस्थित विभाषाश्रयणे व्याख्यानमेव शरणम् । वनगिर्योः । वनगिर्योरिति सप्तमी । कोटरश्च किंशुलुकश्च कोटरकिंशुलुकौ, तावादी येषामिति विग्रह । कोटरादीनां किंशुलुकादीनाञ्चेति लभ्यते । यथासङ्खयमन्वय- । तदाह । कोटररादीनामित्यादिना । पुरगावणमित्युदा हरणानि वक्ष्यन्ते । तत्र णत्वविधिं दर्शयति । वनं पुरगा ॥ वनमिति षष्ठयर्थे प्रथमा इत्यभिप्रेत्य आह । वनशब्दस्येति । एभ्य इति । पुरगा, मिश्रका, सिध्रका, शारिका कोटर, अग्र, इत्येतेभ्य एव परस्य उत्तरपदस्य वनशब्दस्य यो नकारस्तस्य णत्वमित्यन्वयः। रषाभ्याम्' इत्यतो णो नः इत्यनुवृत्तेः । सूत्रे अग्रे इति सप्तम्यन्तस्यानुकरणम् । नन्विह