पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
६५२
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

वनशब्दस्योत्तरपद्स्य एभ्य एव णत्व नान्यभ्यः । इह कोटरान्ताः पञ्च दीर्घविधौ कोटरादयो बोध्या: । तेषां कृतदीर्घाणां णत्वविधौ निर्देशो नियमार्थः । अग्रेशब्दस्य तु विध्यर्थ । पुरगावणम् . । मिश्रकावणम् । सिध्रकावणम् । शारिकावणम् । कोटरावणम् । “ एभ्य एव' इति किम् । असिपत्रवनम् । वनस्याग्रे अग्रेवणम् । राजदन्तादिषु निपातनात्सप्तम्या अलुक् । प्रातिपदिकार्थमात्रे प्रथमा । किंशुलुकागिरिः ।

१०४० । वले । (६-३-११८)

वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् | कृषीवलः |


भिन्नपदत्वात् “ अट्कुप्वाङ्' इति णत्वस्याप्राप्तेः अपूर्वविध्यर्थकत्वावश्यकत्वात् एभ्य एवेति कथं नियमलाभ इत्यत आह । इह कोटरान्ता इति । इह णत्वविधौ उपात्ताः पुरगा मिश्रका सिधका शारिका कोटर इत्येवं पञ्च शब्दाः । त एव वनगिर्योरिति दीर्घविधौ कोटरादिशब्देन विवक्षिताः इत्यर्थः । ततः किमित्यत आह । तेषामिति ॥ णत्वविधौ तावत्पुरगादिशब्दा पञ्च दीर्घन्ता एव निर्दिष्टाः । दीर्घस्तु तेषां संज्ञायामेव वनगिर्योरिति विहितः । एवञ्च एतषा मसंज्ञायां दीर्घाभावात् संज्ञायामेव “वनं पुरगा' इति णत्वविधिरिति पर्यवस्यति । ततश्च तेषु वनशब्दनकारस्य “पूर्वपदात्संज्ञायामग:' इत्येव णत्वे सिद्धे पुनरपि कृतदीर्घस्य पुरगादि पञ्चकस्य णत्वविधौ निर्देशो नियमार्थस्सम्पद्यते इत्यर्थः । पुरगावणामित्यत्र “अगः' इति निषेधस्तु न । अगकारान्तादिति व्याख्यानात् । अतः तस्य विध्यर्थत्वमिति न शङ्कयम् । पुरगाशब्दस्य आकारान्तत्वात् गकारान्तत्वाभावात् । अग्रेशब्दस्य त्विति ॥ णत्वविधैौ अग्रेशब्दस्य निर्देशस्तु अग्रेवणशब्दे अपूर्वणत्वविध्यर्थ एव, न तु नियमार्थः । अग्रेवणशब्द स्यासंज्ञात्वादिति भावः । न च पुरगावणशब्दे गकारव्यवधानात् “पूर्वपदात्संज्ञायाम्' इत्यस्य प्राप्तयसम्भवात्। अत्र अपूर्वणत्वविद्यर्थमेव पुरगाग्रहणमिति वाच्यम् । अग इति हि पञ्चमी । गकारान्तात्पूर्वपदात्परस्य णत्वं नेति लभ्यते । पुरगाशब्दस्त्वयम् आकारान्त एव, न तु गकारान्त इति, तत्र अग इति निषेधाप्राप्तया “पूर्वपदात्संज्ञायाम्' इत्येव सिद्धे पुरगाग्रहणमपि नियमार्थमेवेति भावः । पुरगावणमित्यादयः नरकविशेषाणां संज्ञाः । आसिपत्रवनमिति ॥ नरकविशेषोऽयम् । अत्र संज्ञात्वेऽपि “पूर्वपदात्संज्ञायाम्' इति णत्वं न भवति । एभ्य एवेति नियमादिति भावः । अग्रेवणमिति । वनशब्दस्य षष्ठयन्तस्य अग्रेशब्देन सह षष्ठीसमास इति भावः । ननु तर्हि 'सुपो धातु' इति सप्तम्या अपि लुक् स्यादित्यत आह । राजदन्ता दिष्विति । अनेन वनशब्दस्य परनिपातोऽपि सूचितः । ननु सप्तम्यर्थप्राधान्यात्सप्तमी स्यादित्यत आह । प्रातिपदिकेति ॥ सप्तम्यर्थस्य प्रातिपदिकेऽन्तर्भावादिति भावः । किंशुलुकादीनामुदाहरणमाह । किंशुलुकागिरिरिति । अञ्जनागिरिरित्यप्युदाहार्यम् । वले ॥ कृषीवल इति ॥ कृषिरस्यास्तीति विग्रहे 'रजःकृष्यासुती' इत्यादिना वलच् ।