पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६५३
बालमनोरमा

१०४१ । मतौ बह्वचोऽनजिरादीनाम् । (६-३-११९)

अमरावती । “अनजिरादीनाम्’ किम् । अजिरवती । “बह्वचः किम् । व्रीहिमती । “सञ्ज्ञायाम्' इत्येव । नेह । वलयवती ।

१०४२ । शरादीनां च । (६-३-१२०)

शरावती |

१०४३ । इको वहेऽपीलोः । (६-३-१२१)

इगन्तख्य दाघः स्याद्वहे । ऋषीवहम् । कपीवहम् । “ इक:’ किम् । पिण्डवहम् | * अपीलोः किम् । पीलुवहम् । “अपील्वादीनामिति वाच्यम् (वा ४००५) । दारुवहम् ।

१०४४ । उपसर्गस्य घञ्यमनुष्ये बहुळम् । (६-३-१२२)

उपसर्गस्य बहुल दीर्घः स्याद्धञ्जन्ते परे न, तु मनुष्ये । परीपाक परिपाकः । * अमनुष्ये' किम् । निषादः ।

१०४५ । इकः काशे । (६-३-१२३)

इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाश: । “ इकः किम् । प्रकाशः ।

१०४६ । अष्टनः संज्ञायाम् । (६-३-१२५)

उत्तरपदे दीर्घः । अष्टापदम् । “ संज्ञायाम्' किम् । अष्टपुत्रः ।

.


मतौ ॥ मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति ॥ इन्द्रनगर्यास्संज्ञेयम् । अमराः अस्यां सन्तीति विग्रह । “मादुपधायाश्च' इति संज्ञायामिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्य संज्ञात्वान्न दीर्घ इति भावः । शरादीनाञ्च । मतौ दीर्घस्संज्ञायामिति शेषः । अबह्वच्कत्वा त्पूर्वेण न प्राप्तिः । शरावतीति । शराः अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम । इको वहेऽपीलोः । अपीलोरिति च्छेद । इगन्तस्येति । पूर्वपदस्येति शेषः । उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः । “चजोः कुघिण्यतोः' इति कुत्वम् । निषाद इति ॥ पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः । हलश्च' इत्यधिकरणे घञ् , दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिक । यद्वा प्रतीहारः द्वारम्, तत्स्थत्वात् मनुष्ये गोणः । इकः काशे ॥ नीकाश इति । पचाद्यजन्तत्वात् पूर्वेण न प्राप्तिः । अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे । उत्तरपदे दीर्घ इति ।