पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४

पुटमेतत् सुपुष्टितम्
५२८
[गति
सिद्धान्तकौमुदीसहिता

७७५ । साक्षात्प्रभृतीनि च । (१-४-७३)

कृञि वा गतिसंज्ञानि स्युः । “च्व्यर्थ इति वाच्यम्' (वा ११४२) । साक्षात्कृत्य-साक्षात् कृत्वा । लवणंकृत्य-लवणं कृत्वा । मान्तत्वं निपातनात् ।

७७६ । अनत्याधान उरसिमनसी । (१-४-७५)

उरसिकृत्य-उरसि कृत्वा । अभ्युपगम्येत्यर्थः । मनसिकृत्य-मनसि कृत्वा । निश्चित्येत्यर्थः । अत्याधानमुपश्लेषणं तत्र न । उरसि कृत्वा पाणिं शेते ।

७७७ । मध्येपदेनिवचने च । (१-४-७६)

एते कृञि वा गतिसंज्ञाः स्युरनत्याधाने । मध्येकृत्य-मध्ये कृत्वा । पदेकृत्य-पदे कृत्वा । निवचनेकृत्य-निवचने कृत्वा । वाचं नियम्येत्यर्थः ।

७७८ । नित्यं हस्तेपाणावुपयमने । (१-४-७७)

कृञि । उपयमनं विवाहः । “ स्वीकारमात्रम् ' इत्यन्ये । हस्तेकृत्य । पाणौकृत्य


इत्यव्यये दुर्बलस्य बलाधाने वर्तते । तदाह । दुर्बलस्येति ॥ साक्षात्प्रभृतीनि च ॥ शेषपूरणेन सूत्रं व्याचष्टे । कृञि वेति ॥ साक्षादित्यव्ययम् । च्व्यर्थ इति ॥ अभूततद्भावे गम्ये सति वक्तव्यमित्यर्थः । साक्षात्कृत्येति ॥ अप्रत्यक्षं प्रत्यक्षं कृत्वेत्यर्थः । गतित्वपक्षे त्को ल्यप् । तत्र सुब्लुकमाशङ्क्य आह । मान्तत्वमिति ॥ लवणम्, उष्णम्, शीतम्, उदकम्, आद्यम्, इति पञ्चानां साक्षात्प्रभृतिगणे मान्तत्वं निपात्यते इत्यर्थः । अनत्याधाने ॥ उरसि मनसि इति विभक्तिप्रतिरूपके अव्यये गतिसंज्ञे वा स्तः अनत्याधाने॥ उरासिकृत्येति ॥ गतित्वपक्षे त्का ल्यप् । इह अत्याधानं न गम्यत इत्याह । अभ्युपगम्येत्यर्थ इति ॥ मनासिकृत्येति ॥ गतित्वपक्षे त्को ल्यप् । इहापि नात्याधानं गम्यत इत्याह। निश्चित्येत्यर्थ इति॥ अत्याधानशब्दं विवृण्वन् तस्य प्रयोजनमाह। अत्याधानमुपश्लेषणमिति ॥ संयोग इत्यर्थः । उरसि कृत्वेति ॥ उरसि पाणिं निधाय शेत इत्यर्थः । अत्र पाणिसंश्लेषणावगमान्न गतेिसंज्ञेति भावः । मध्द्येपदे ॥ गतित्वे तदभावे च त्रयाणामेदन्तत्वन्निपात्यते । मध्द्येकृत्येति ॥ गतिसमासे त्को ल्यप् । मध्यं कृत्वेत्यर्थः । पदेकृत्येति ॥ गतिसमासे त्को ल्यप् । पदं कृत्वेत्यर्थः । निवचनेकृत्येति ॥ वचनाभावं कृत्वेत्यर्थः । तदाह । वाचं नियम्येत्यर्थ इति ॥ वचनस्य अभावः निवचनम्। अर्थाभावे अव्ययीभाव इति भावः । नित्यं हस्ते ॥ शेषपूरणेन सूत्रं व्याचष्टे । कृञीति ॥ हस्ते इति पाणाविति च शब्दौ कृञि नित्यं गतिसंज्ञौ भवतः । उपयमन इति यावत् । हस्तेकृत्य, पाणोकृत्येति ॥ कन्यां स्वीकर्तुं पाणिं गृहीत्वेत्यर्थः । एदन्तत्वमौदन्तत्वञ्च अनयोर्निपात्यते । उपयमने किं, हस्ते कृत्वा सुवर्णं गतः ।