पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६५९
बालमनोरमा

१०५८ । कुस्तुम्बुरूणि जातिः । (६-१-१४३)

अत्र सुण्निपात्यते । कुस्तुम्बुरुर्धान्याकम् । क्लीबत्वमतन्त्रम् । 'जाति किम् । कुतुम्बुरूणि । कुत्सितानि तिन्दुकीफलानीत्यर्थः ।

१०५९ । अपरस्पराः क्रियासातत्ये । (६-१-१४४)

सुण्निपात्यते । अपरस्परा: साथ गच्छन्ति । सततमविच्छेदेन गच्छ न्तीत्यर्थ । “क्रिया-' इति किम् । अपरपरा गच्छन्ति । अपरे च परे च सकृदेव गच्छन्तीत्यर्थः ।

१०६० । गोष्पदं सेवितासेवितप्रमाणेषु । (६-१-१४५)

सुट् सस्य षत्वञ्च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते । अगोष्पदान्यरण्यानि । प्रमाणे । गोष्पदमात्रं क्षेत्रम् । 'सेवित-' इत्यादि किम् । गोः पदं गोपदम् ।


विभक्तयुत्तरखण्डस्य कार्यभाक्ताभावात् “उत्तरपदत्वे चापदादिविधौ' इति प्रत्ययलक्षणनिषेध स्याप्रवृतौ अन्तर्वर्तिविभक्तयाश्रयणेन पदत्वात् * पदव्यवायेऽपि' इति णत्वनिषेधस्यादिति वाच्यम् । पदे परे यत्पदं तेन व्यवाये णत्व नेत्यर्थस्यैव भाष्यसम्मतत्वात् । तच्च अनुपदमेव स्पष्टीभविष्यति । रम्यविणेत्यत्र च विशब्दस्यान्तर्वर्तिविभक्तया पदत्वेऽपि तस्य पदपरकत्वा भावान्न णत्वनिषेधः । एतेन पुनर्भूणामित्यत्रापि णत्वं निर्वाधम् । अतद्धिते इति ॥ अतद्धिते परे यत्पदं तेन व्यवधाने अयं निषेधः, नतु तद्धितपरकपदेनेत्यर्थः । आर्द्रगोंमये णेति ॥ गोः पुरीषं गोमयं “गोश्च पुरीषे' इति गोशब्दात् षष्ठयन्तात् मयट्, तद्धित तद्धितान्तप्रातिपदिकावयवत्वात् सुपो लुक् । आद्रगोमयमिति कर्मधारयः । यद्यपि प्रत्ययलक्ष णेन अन्तर्वर्तिनीं विभक्तिमाश्रित्य गोशब्दः मयटि पदम् । तथापि तस्य तद्धितपरकतया तेन व्यवधानेऽपि रेफात्परस्य णत्वं भवत्येव । अस्मिन् प्रकरणे अट्कुप्वाङ्नुम्व्यवायस्य अबाध कत्वात् । शुष्कगोमयेणेति ॥ षात्परस्योदाहरणम्। भाष्ये तु 'पदान्तस्य' इति पूर्वसूत्रात्पद ग्रहणानुवृत्तिमभिप्रेत्य पदे परतः पदेन व्यवाये णत्वं नेत्याश्रित्य वार्तिकमिदं प्रत्याख्यातम् । अथ 'सुट् कात्पूर्वः’ इत्यतः सुडित्यनुवृत्तौ कतिचित्सूत्राणि व्याख्यातुमुपक्रमते । कुस्तुम्बु रूणि ॥ अत्रेति ॥ जातिविशेषे वाच्ये कुस्तुम्बुरुशब्दः ससुट्को निपात्यते इत्यर्थः । कुस्तुम्बुरुर्धान्याकमिति ॥ गुल्माविशेषे प्रसिद्धः । क्लीबत्वमतन्त्रमिति ॥ अविव क्षितमित्यर्थ । वचनमप्यतन्त्रमिति बोध्यम् । कुतुम्बुरूणीति ॥ धान्याकजातिवाचक त्वाभावात् न सुडिति भाव । तदाह । कुत्सितानि तिन्दुकीफलानीत्यर्थः इति ॥ तुम्बुरुशब्दस्य तिन्दुकवाचकत्वे कोशो मृग्यः । अपरस्पराः क्रियासातत्ये ॥ स्पष्टम् । गोष्पदम् ॥ असेविते गोष्पदशब्दस्य वृत्त्यसम्भवात् नञ्पूर्वकमुदाहरति । अगोष्पदा नीति ॥ गवां सञ्चरो यत्र नैव सम्भवति तत्रापि सुडिति भाव । गोष्पदमात्रं क्षेत्रमिति ॥