पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
६६०
[समासाश्रयविधि
सिद्धान्तकौमुदीसहिता

१०६१ । आस्पदं प्रतिष्ठायाम् । (६-१-१४६)

आत्मयापनाय स्थाने सुट् निपात्यते । आस्पदम् । 'प्रतिष्ठायाम् ' इति किम् । आ पदात् आपदम् । (आपदापदम्)

१०६२ । आश्चर्यमनित्ये । (६-१-१४७)

अद्रुते सुट् । आश्चर्य यदि स भुञ्जीत । “ अनित्ये' किम् । आचर्य कर्म शोभनम् ।

१०६३ । वर्चस्केऽवस्करः (६-१-१४८)

कुत्सितं वचों वर्चस्कमन्नमलम् । तस्मिन् सुट् । अवकीर्यत इत्यवस्करः। वर्चस्के' किम् । अवकरः ।

१०६४ । अपस्करो रथाङ्गम् । (६-१-१४९)

अपकरोन्यः |

१०६५ । विष्किरः शकुनौ वा । (६-१-१५०)

पक्षे विकिरः । “वावचनेनैव सुड़्विकल्पे सिद्धे विकिरग्रहणं तस्यापि शकुनेरन्यत्र प्रयोगो मा भूत्’ इति वृत्तिः । तन्न । भाष्यविरोधात् ।


क्षेत्रस्याल्पप्रमाणत्वमनेन ज्ञाप्यते । अतः गोष्पदात् क्षेत्रस्याधिक्येऽपि न क्षतिः । आास्पदं प्रतिष्ठायाम् ॥ आत्मेति ॥ आत्मयापनं शरीरसंरक्षणं, तदर्थ यत् स्थानं तस्मिन् गम्ये सुडित्यर्थः । आपदादापदमिति ॥ आ पदादिति विग्रहे अव्ययीभावे आपदमिति भवती त्यर्थः । आपदापदमिति पाठे तु आपदमित्यस्य आपदित्यर्थः । आश्चर्यमनित्ये ॥ अद्भुते गम्ये आङ्पूर्वकस्य चरस्सुट्। चरेराङि चागुरौ इति यत्। अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्य आह । अद्भुते सुडिति ॥ तेन आश्चर्यं नीला द्यौः ंआश्चर्मन्तरिक्षं यदबन्धानि नक्षत्राणि न पतन्तीत्यादिसङ्गहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यते इत्युक्ते तु एतन्न सिध्ध्येत् । वर्चस्केऽवस्करः ॥ “मूत्रं प्रस्राव उच्चारावस्करौ शमलं शकृत् । गूधं पुरीषं वर्चस्कमस्री विष्ठाविषौ स्त्रियाम्' इत्यमरः । अपस्करो ॥ “स्याद्र थाङ्गमपस्करः' इत्यमरः । “ चक्र रथाङ्गम्” इति च । विष्किरः ॥ विकिरतीति विकिरः ।

  • कृ विक्षेपे' 'इगुपधज्ञा' इति कः । शकुनौ गम्ये सुड़ा, “परिनिविभ्यः’ इति षत्वम् । “नगौको

वाजिविकिरविविष्किरपतत्त्रयः” इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थे 'विकिरः शकुनौ विकिरो वा'इति सूत्रपाठः । तत्र वाग्रहणादेव सुड़्विकल्पे सिद्धे विकिरग्रहणं विष्किरः विकिर हति शकुनावेवेति नियमार्थम् । अतश्शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यते इत्यर्थः । भाष्ये हि विष्किरश्शकुनौ वा’ इति सूत्रम्पठित्वा वाग्रहणेन सुड़्विकल्पः, नतु शकुनेरन्यत्र