पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
६६१
बालमनोरमा

१०६६ । प्रतिष्कशश्च कशेः । (६-१-१५२)

कश गतिशासनयोः' इत्यस्य प्रतिपूर्वस्य पचाद्यचि सुट् निपात्यते षत्वश्च । सहायः पुरोयायी वा प्रतिष्कश इत्युच्यते । “ कशेः' किम् । प्रति गतः कशां प्रतिकशोऽश्वः । यद्यपि कशेरेव कशा, तथापि कशेरिति धातो र्ग्रहणमुपसर्गस्य प्रतेर्ग्रहणार्थम् । तेन धात्वन्तरोपसर्गान्न ।

१०६७ । प्रस्कण्वहरिश्चन्द्रावृषी । (६-१-१५३)

हरिश्चन्द्रग्रहणममन्त्रार्थम् । “ ऋषी' इति किम् । प्रकण्वो देश । हरिचन्द्रो माणवकः ।

१०६८ । मस्करमस्करिणौ वेणुपरिवाजकयोः । (६-१-१५४)

मकरशब्दोऽव्युत्पन्नः, तस्य सुडिनिश्च निपात्यते । * वेणु-' इति किम् । मकरो ग्राहः । मकरी समुद्रः ।

१०६९ । कास्तीराजस्तुन्दे नगरे । (६-१-१५५)

ईषरत्तीरमस्यास्तीति कास्तीरं नाम नगरम् । अजस्येव तुन्दमस्येति अजस्तुन्दं नाम नगरम् । * नगरे' किम् । कातीरम् । अजतुन्दम् ।

१०७० । कारस्करो वृक्षः । (६-१-१५६)

(ग १५३) । कारं करोतीति कारस्करो वृक्षः । अन्यत्र कारकरः । केचितुं कस्कादिष्विदं पठन्ति, न सूत्रेषु ।

.


विकिरशब्दस्य प्रयोगो नेति स्थितम् । अन्यत्रापि “विकिरं वैश्वदेविकम्” इत्यत्र दर्शनादिति भावः । प्रतिष्कशश्च कशेः ॥ कशेरिति कश इत्यत्रान्वेति । तथाच कशधातोः निष्पन्नस्य कश शब्दस्य प्रतेः परस्य सुट् स्यादित्यर्थः । कशेरेवेति ॥ कशधातोरेव कशशब्दो निष्पन्न इत्यर्थः धात्वन्तरेति ॥ प्रतिगतः कशाः प्रतिकश इत्यत्र गतिं प्रत्येव प्रतिरुपसर्गः, नतु कशिम्प्रति । यक्रियायुक्ताः प्रादयः' इति नियमादित्यर्थः । प्रस्कण्वहरिश्चन्द्रावृषी ॥ अमन्त्रार्थ मिति ॥ मन्त्रेतु “हस्वाञ्चन्द्रोत्तरपदे मन्त्रे’ इति पूर्वसूत्रेणैव सिद्धमिति भावः । तत्सूत्रं वैदिकप्रक्रियायां व्याख्यास्यते । मस्करमस्करिणौ [ ॥ यथासङ्खयमन्वयः । मस्करिग्रहणात्परि व्राजक एव मस्करिशब्द । अन्यत्र तु मकरीत्येवेत्याहुः । कास्तीराजस्तुन्दे ॥ कास्तीर शब्दः अजस्तुन्दशब्दश्च नगरे निपात्येते इत्यर्थः । कारस्करो वृक्षः ॥ कारङ्करोतीति १. केविात्विति । अत्रारुचिबीजं पारस्करादिषु प्रत्यक्षतो दर्शनम्, प्रकरणाद्विसर्गस्थान एव तेन सैत्वविधानञ्च । न सूत्रेष्विति । न गणसूत्रषु इत्यर्थः । एवञ्च पारस्कराद्यन्तर्गणसूत्रमिति बोध्यम् इति शेखरः । अयञ्च * कस्कादिषु' इति क्वाचित्कं पाठमाश्रित्य । वस्तुतस्तु “पारस्करा दिषु' इति पाठः । मूलसन्दर्भस्वारस्यात्, काशिकासंवादाच्च ।