पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२१

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५३५
बालमनोरमा

७८८ । राजाहःसखिभ्यष्टच । (५-४-९१)

एतदन्तात्तत्पुरुषाट्टच्स्यात् । परमराजः । अतिराजी । कृष्णसखः ।

७८९ । अह्नष्टखोरेव । (६-४-१४५)

एतयोरेव परतोऽहृष्टिलोपः स्यान्नान्यत्र । उत्तमाहः । द्वे अहनी भृतो व्द्यहीनः क्रतुः । तद्धितार्थे द्विगुः । “तमधीष्टः-' (सू १७४४) इत्यधिकारे द्विगोर्वा' इत्यनुवृत्तौ “ रात्र्यहःसंवत्सराच्च' (सू १७५१) इति खः । लिङ्ग विशिष्टपरिभाषाया अनित्यत्वान्नेह । मद्राणां राज्ञी मद्रराज्ञी ।


इति पुंस्त्वम् । द्विरात्रमिति ॥ “तद्धितार्थ' इति द्विगुः। सङ्खयादित्वात् अच्, इलोपः। सङ्कया पूर्वे रात्रं क्लीबम्’ इति नपुंसकत्वम् । अतिरात्र इति ॥ अत्यादयः क्रान्ताद्यर्थे' इति समासः । अव्ययादित्वादच्, इलोपः, “रात्राह्म' इति पुंस्त्वम् । राजाहस्सखिभ्यष्टच ॥ 'तत्पुरुषस्याडुळेः' इत्यतः तत्पुरुषस्येत्यनुवृत्तं पञ्चमीबहुवचनत्वेन विपरिणतम् राजाहस्सखिभ्यः इत्यनेन विशेष्यते । तदन्तविधिः । तदाह । एतदन्तादिति ॥ परमराज इति ॥ परमश्चासौ राजा चेति विग्रहः । समासान्तष्टच् । 'नस्तद्धिते' इति टिलोपः । अतिराज इति ॥ अतिक्रान्ताँ राजानमिति विग्रह । ‘अत्यादय:’ इति समासः । टचि, टिलोपः कृष्णसख इति ॥ कृष्णस्य सखेति विग्रहः । समासान्तष्टच् । यस्येति च' इति इकारलोपः। अहृष्टखोः ॥ शेषपूरणेन सूत्रं व्याचष्ट । टिलोपस्यादिति ॥ टेरित्यनुवर्तते । ' अल्लोपोऽनः’ इत्यस्मात् लोप इति चेति भावः । 'नस्तद्धिते' इत्येव सिद्धे नियमार्थमित्याह । नान्यत्रेति ॥ एवकारस्तु अह्न एव टखोरिति विपरीतनियमव्यावृत्त्यर्थः । टखोरेवेति किम्। अह्वा निर्वृतम् आह्निकम् ‘कालाठ्ठञ्' इत्यधिकारे 'तेन निर्वृतम्’ इति ठञ् । टिलोपाभावादल्लोपः । टप्रत्यये उदाहरति । उत्तमाह इति ॥ उत्तमश्च तदहश्चेति विशेषणसमासः। राजाहस्सखिभ्यष्टच' इति टचु । ‘अहृष्टखोरेव' इति प्रकृतसूत्रेण टिलोपः । “रात्राह्नाहाः पुंसि इति पुंस्त्वम् । खे उदाहरति । द्वे अहनी भृत इति ॥ 'अत्यन्तसयोगे द्वितीया' भृत परिक्रीत इत्यर्थः । ह्यहीन इत्यत्र प्रक्रियां दर्शयति । तद्धितार्थे द्विगुरिति ॥ कोऽत्र तद्धित इत्यत आह । तमधीष्ट इत्यादि ॥ तथाच ह्यहन्शब्दात् खस्य ईनादेशे ‘अहृष्टखोरेव' इति टिलोपे व्द्यहीन इति रूपमित्यर्थः । नन्वत्र ' अह्नोऽह्न एतेभ्यः' इत्यह्लादेशः कुतो न स्यात् । न च खे टेिलोपविधिसामर्थ्यान्नाह्नादेश इति वाच्यम् । ' अहीन' इत्यत्र खे टिलोपविधेः चरितार्थत्वात् इति चेन्न । समासान्ते परे एवाह्लादेशविधानात् । प्रकृते तु समासान्तविधेरनित्यत्वात् “राजाहस्सखिभ्यः’ इति न टच । यद्यपि उत्तमाहः इत्यत्र ह्यहीन इत्यत्र च “नस्तद्धिते' इत्येव टिलोपस्सिद्धः । तथापि आह्लिकमित्यादावावश्यकस्य नियमविधेर्विधिमुखेनापि प्रवृत्त्यभ्युपगमादिह तदुपन्यासः । ननु मद्राणा राज्ञी मद्रराज्ञीत्यत्रापि लिङ्गविशिष्टपरिभाषया “ राजाहस्सखिभ्य:’ इति टच् स्यादित्याशङ्कय आह । लिङ्गेति ॥ अनित्यत्वादिति ॥ समासान्तप्रकरणे लिङ्गविशिष्टपरिभाषा नेति ‘ड्याप्प्रातिपदिकात् इत्यत्र