पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२२

पुटमेतत् सुपुष्टितम्
५३६
[असाधारण
सिद्धान्तकौमुदीसहिता


७९० । अह्नोऽह्न एतेभ्यः । (५-४-८८)

सर्वादिभ्यः परस्याहन्शब्दस्याह्लादेशः स्यात्समासान्ते परे ।

७९१ । अह्नोऽदन्तात् । (८-४-७)

अदन्तपूर्वपदस्थाद्रेफात्परस्याह्नोऽह्वादेशस्य नस्य णः स्यात् । सर्वाह्नः । पूर्वाह्नः । संख्याताह्नः । द्वयोरह्नोर्भवः । 'कालाट्टञ्' (सू १३८१) 'द्विगोर्लुगनपत्ये' (सू १०८०) इति ठञो लुक् । व्द्यह्नः । स्त्रियामदन्तत्वाट्टाप् । व्द्यह्ना । व्द्यह्नप्रियः । अत्यह्नः ।

७९२ । क्षुभ्नादिषु च । (८-४-३९)


भाष्ये उक्तत्वादिति भावः । मद्रराज्ञीति ॥ नच टचि सत्यपि ‘यस्येति च' इतीकारलोपे मद्रराज्ञशब्दात् टित्वात् ङीपि मद्रराज्ञीति निर्बाधमिति वाच्यम् । टचि हि सति ‘भस्याढे तद्धिते' इति पुंवत्वे टिलोपे मद्रराजी इति स्यादिति भावः । अह्नोऽह्न एतेभ्यः ॥ पूर्वसूत्रे अहस्सर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः । तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहश्शब्दवर्जे ते सर्वे एतच्छब्देन परामृश्यन्ते । नत्वहश्शब्दः । अहश्शब्दात् परस्य अहन्शब्दस्य तत्पुरुषे असम्भवादित्यभिप्रेत्य व्याचष्टे । सर्वादिभ्य इति ॥ समासान्ते पर इति ॥ एतत्तु प्रकरणाल्लब्धम् । अह्नोऽदन्तात् ॥ 'पूर्वपदात्संज्ञायाम्' इत्यतः पूर्वपदादित्यनुवृत्तम् अदन्तादित्यत्र अन्वेति । “रषाभ्यां नो णः' इति सूत्रं षकारवर्जमनुवर्तते । पूर्वपदादित्यनेन पूर्वपदस्थादिति विवक्षितम् । तदाह । अदन्तपूर्वेति ॥ तदन्तविधिनैव सिद्धे अन्तग्रहणं स्पष्टार्थम् । लक्षेषु अहस्सु भवो लक्षाह्न इत्यत्र णत्वार्थे षादित्यपि बोध्द्यम् । समासान्ते पर इति किम् । द्वे अहनी भृतो व्द्यहीनः । अत्र समासान्तविधेरनित्यत्वात् टजभावे अह्वादेशो न । सर्वाह्न इति ॥ सर्वमहरिति विग्रहे ‘पूर्वकाल’ इति समासे ‘राजाहस्सखिभ्यः’ इति टच्, अह्नादेशः, णत्वं,‘रात्राह्नाहाः इति पुंस्त्वम्। पूर्वाह्ण इति॥ समासादि सर्वाह्णवत्। सङ्ख्याताह्न इति ॥ सङ्खयातमहरिति विग्रह । विशेषणसमासः टच् अह्वादेशः । निमित्ताभावान्न णत्वम् । पुण्यपूर्वस्य त्वग्रे वक्ष्यते । सङ्खयापूर्वस्य उदाहरति । द्वयोरह्नोरित्यादि ॥ xx इति ॥ तद्धितार्थे द्विगुः। टच् । ततो भवार्थे ठञ्, तस्य लुक् अह्नादेशः । प्रसङ्गादाह । स्त्रियामिति ॥ द्वयह्नेति ॥ द्वयोरह्नोर्भवेत्यर्थः । ठञ् लुक् च पूर्ववत् । 'अपरिमाणबिस्त' इति न ङीप्। ठञ्निमित्तस्तु ङीप् नेत्यपरिमाणबिस्तेत्यत्र उक्तम् । टचष्टित्वेऽप्युपसर्जनत्वात् ‘टिड्ढ’ इति न ङीप् । वस्तुतस्तु स्त्रीत्वमेवात्र नास्ति । रात्राह्नाहाः पुंसीत्युक्तेरिति शब्देन्दुशेखरे प्रपञ्चितम् । सङ्खयापूर्वस्य उदाहरणान्तरमाह । द्वयह्नप्रिय इति ॥ द्वे अहनी प्रिये यस्येति विग्रहः । तद्धितार्थेत्युत्तरपदे द्विगुः । टच् अह्नादेश इति भावः । अव्ययपूर्वस्य उदाहरति । अत्यह्न इति ॥ अहरतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टच् अह्नादेश इति भावः । क्षुभ्नादिषु च ॥ रषाभ्यामित्यतो ण इति ‘न भाभूपूकमि' इत्यतो नेति चानुवर्तते । तदाह ।