पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२३

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५३७
बालमनोरमा


एषु णत्वं न स्यात् । दीर्घाह्नी प्रावृट् । एवं चैतदर्थमह्न इत्यदन्तानुकरणे क्लेशो न कर्तव्यः । 'प्रातिपदिकान्त-' (सू १०५५) इति णत्व वारणाय क्षुभ्नादिषु पाठस्यावश्यकत्वात् । 'अदन्तात्' इति तपरकरणान्नेह । परागतमहः । पराह्नः ।

७९३ । न संख्यादेः समाहारे । (५-४-८९)

समाहारे वर्तमानस्य संख्यादेरह्नादेशो न स्यात् । ' संख्यादेः' इति स्पष्टार्थम् । द्वयोरह्नोः समाहारो व्द्यहः । त्र्यहः ।

७९४ । उत्तमैकाभ्यां च । (५-४-९०)

आभ्यामह्नादेशो न । उत्तमशब्दोऽन्त्यार्थः पुण्यशव्दमाह । 'पुण्यैकाभ्याम्' इत्येव सूत्रयितुमुचितम् । पुण्याहम् । सुदिनाहम् । सुदिनशब्दः


एष्विति ॥ दीर्घाह्नी प्रावृडिति ॥ वर्षतौं प्रावृट्शब्दः स्त्रीलिङ्गः। “स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः” इत्यमरः । दीर्घाण्यहानि यास्मिन्निति बहुव्रीहिः । “ अन उपधालोपिनोऽन्यतरस्याम्' इति ङीप् “अल्लोपोऽनः' इत्युपधालोपः । 'अह्नोऽदन्तात्' इति णत्वन्तु क्षुभ्नादित्वान्नेति भावः । ननु क्षुभ्नादिषु दीर्घाह्नीत्यस्य पाठो व्यर्थः । “ अह्नोऽदन्तात्' इत्यत्र हि अह्न इत्यदन्तात् षष्ठ्यर्थे प्रथमा । अदन्तपूर्वपदस्थान्निमित्तात् परस्य अह्नशब्दस्य नस्य णत्वं स्यादिति तदर्थः । दीर्घाह्रीत्यत्र च अह्नादेशस्य अप्रसक्तया अदन्तत्वाभावादेव णत्वस्य अप्राप्तौ किन्तान्निवृत्त्यर्थेन क्षुभ्नादिपाठेनेत्यत आह । एवञ्चेति ॥ एवं सति दीर्घाँह्नी शब्दस्य क्षुभ्नादिपाठे सति एतदर्थम् ‘अह्नोऽदन्तात्' इति णत्वनिवृत्त्यर्थम् अह्न इत्यस्य अदन्तत्वानुसरणं षष्ठयर्थे व्यत्ययेन प्रथमानुसरणक्लेशावहन्न कर्तव्यमित्यर्थः। क्षुभ्नादिपाठादेव णत्वनिवृत्तिसिद्धेरिति भावः । ननु दीर्घाह्नीत्यस्य किं क्षुभ्नादिपाठोऽभ्युपगम्यताम् उत अह्न इत्यस्य अदन्तत्वमित्यत्र विनिगमनाविरह इत्यत आह्। प्रातिपदिकान्तेति ॥ अथ ‘अह्नोऽदन्तात्’ इत्यत्र पूर्वपदविशेषणे अदन्तादिति तपरत्वस्य प्रयोजनमाह । अदन्तादिति ॥ पराह्न इति ॥ 'प्रादयो गताद्यर्थे' इति समासः, टञ्, अव्ययात्परत्वादह्नादेशः । परेति पूर्वपदस्यादन्तत्वाभावात् न णत्वमिति भावः । न सङ्कयादेस्समाहारे ॥ अह्नादेश इति ॥ 'अह्नोऽह्नः’ इत्यतस्तदनुवृत्तरिति भावः । ननु सङ्ख्यादिभिन्नस्य तत्पुरुषस्य समाहारे अभावादेव सिद्धे सङ्खयादेरिति व्यर्थमित्यत आह । स्पष्टार्थमिति ॥ व्द्यह इति ॥ समाहारे द्विगुः । टच् , “रात्राह्न' इति पुंस्त्वम्,सङ्खयादित्वात्प्राप्तस्य अह्नादेशस्य निषेधः । त्र्यह इति ॥ त्रयाणामह्नां समाहार इति विग्रहः। समासादि व्द्यहवत् । उक्तमेकाभ्याञ्च ॥ ननु उत्तमशब्दात् परस्याहन्शब्दस्य अह्नादेशाप्रसक्त्तेरुत्तमग्रहणं व्यर्थमित्यत आह । उत्तमशब्द इति ॥ उत्तमशब्दः अन्त्ये वर्तते । यथा “द्वादशाहे उदयनी यातिरात्र उत्तममहः” इति अन्त्यमिति गम्यते । अहस्सर्वैकदेशसङ्ख्यात-