पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२४

पुटमेतत् सुपुष्टितम्
५३८
[असाधारण
सिद्धान्तकौमुदीसहिता

प्रशस्तवाची । एकाहः । “उत्तमग्रहणमुपान्त्यस्यापि सङ्ग्रहार्थम्' इत्येके ।

७९५ । अग्राख्यायामुरसः । (५-४-९३)

टच्स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ।

७९६ । अनोऽश्मायःसरसां जातिसंज्ञयोः । (५-४-९४)

टच्स्याज्जातौ सज्ञायां च । उपानसम् । अमृताश्मः । कालायसम् । 'मण्डूकसरसम्’ इति जातिः । महानसम् । पिण्डाश्मः । लोहितायसम् । 'जलसरसम्’ इति संज्ञा ।

७९७ । ग्रामकौटाभ्यां च तक्ष्णः । (५-४-९५)

। ग्रामस्य तक्षा ग्रामतक्षः । साधारण इत्यर्थः । कुट्यां भवः कौटः । स्वतन्त्रः । स चासौ तक्षा च कौटतक्षः ।


पुण्यादित्युपात्तेषु अन्यः पुण्यशब्दो विवक्षित इत्यर्थः । तर्हि पुण्यैकाभ्याम् इत्येव कुतो न सूत्रितम् इत्याशङ्कय स्वतन्त्रेच्छत्वान्महर्षेरित्याह । पुण्यैकाभ्यामित्येवेति । पुण्याहमिति ॥ पुण्यमहरिति विग्रहे विशेषणसमासः, टच्, टिलोपः, 'पुण्यसुदिनाभ्याञ्च' इति नपुंसकत्वम् । एकाह इति ॥ एकमहरिति विग्रहे 'पूर्वकाल' इति समासः । टच्, टिलोपः । उपान्त्यस्यापीति ॥ लक्षणयेति शेषः । पुण्येत्यनुक्ता उत्तमग्रहणमेव लक्षणाबीजम्, उत्तमञ्च एकश्चेति द्वन्द्वः, सौत्रं द्विवचनमिति भावः । सङ्ख्याताह इति ॥ सङ्ख्यातमहरिति विग्रहे विशेषणसमासः, टञ्, टिलोपः । 'रात्राह्न' इति पुंस्त्वम् । उपान्त्यसङ्ख्यातशब्दपूर्वकत्वात् नाह्रादेशः । अग्राख्यायामुरसः ॥ शेषपूरणेन सूत्रं व्याचष्टे । टच् स्यादिति ॥ पञ्चम्यर्थे सप्तमी । अग्रं प्रधानं तद्वाची य उरश्शब्दः तदन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । 'अग्र्याख्यायाम्' इति पाठान्तरम् । अग्रे भवमग्र्यं, मुख्यमिति यावत् । अश्वानामुर इवेति ॥ उरो यथा प्रधानं तथेत्यर्थः । उरश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अश्वोरसमिति ॥ उरश्शब्देन मुख्यवाचिना षष्ठीसमासः, टच् 'परवल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्यायामिति किम् । देवदत्तस्योरः देवदत्तोरः । अनोश्मायस् ॥ उपानसमिति ॥ उपगतमन इति प्रादि समासः । अमृताश्म इति ॥ अमृतः अश्मेति विग्रहः । टचि, टिलोपः । काळायसमिति ॥ काळम् अय इति विग्रहः, टच् 'परवल्लिङ्गम्' इति नपुंसकत्वम् । मण्डूकसरसमिति ॥ षष्ठी समासः । टच् । जातिविशेषा एते, महानसं, पिण्डाश्मः, लोहितायसं, जलसरसमिति संज्ञाविशेषाः । ग्रामकौटाभ्याञ्च तक्ष्णः ॥ आभ्यां टजिति ॥ ग्रामकौटाभ्यां परो यस्तक्षन्शब्दः तदैन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । ग्रामतक्ष इति ॥ टचि टिलोपः। साधारण इति ॥ ग्रामे यावन्तो जनास्सन्ति तावतां विधेय इत्यर्थः । कुट्यां भव इति ॥ कुटीमेकां क्रयादिना सम्पाद्य तत्र