पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२५

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम् ]
५३९
बालमनोरमा

७९८ । अतेः शुनः । (५-४-९६)

अतिश्वो वराहः । अतिश्वी सेवा ।

७९९ ॥ उपमानादुप्राणिषु । (५-४-९७)

अप्राणिवषयकोपमानवाचिनः शुनष्टच्स्यात् । अाकषः श्वेवाकर्षश्वः । 'अप्राणिषु' किम् । वानरः श्वेव वानरश्वा ।

८०० । उत्तरमृगपूर्वाच्च् सक्थ्नः । (५-४-९८)

चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ।

८०१ । नावो द्विगोः । (५-४-९९)

नौशब्दान्ताद्विगोष्टच्स्यात्, न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतो द्विनावरूप्यः । 'द्विगोर्लुगनपत्ये' (सू १०८०) इत्यत्र 'अचि' इत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । 'अतद्धितलुकि' इति किम् । पञ्चभिर्नौभिः क्रीतः पश्चनौः ।

यो वसति, नतु परकीयभूमिप्रदेशे, सः कौट इत्यर्थः । फलितमाह । स्चतन्त्र इति ॥ कौटतक्ष इति ॥ टचि टिलोपः । अतेश्शुनः ॥ अतीत्यव्ययात् परो यः श्वन्शब्दः तदन्तात्तत्पुरुषाट्टजित्यर्थः । अतिश्व इति ॥ श्वानमतिक्रान्त इति विग्रहः । अत्यादय इति समासः । टचि, टिलोपः श्वापेक्षयाधिकवेगवान् वराह इत्यर्थः । अतिश्वी सेवेति ॥ श्वानमतिक्रान्तेत्यर्थः, श्वापेक्षया नीचा सेवेति यावत्, टच्, टिलोपः। टित्वात् ङीप्, यस्येति च इत्यकारलोपः। उपमानादप्राणिषु ॥ आकर्षः श्वेवेति॥ आकृष्यते कुसूलादिगतधान्यमनेनेत्याकर्षः । पञ्चाङ्गुलो दारुविशेषः । ‘उपमितं व्याघ्रादिभिः’ इति समासः । टच्, टिलोपः, आकर्षश्वः इति रूपम् । उपमानात् किम् । शुनो निष्क्रान्तः निश्श्वा । उत्तरमृग ॥ उत्तर मृग पूर्व एभ्यः उपमानाञ्च परो यः सक्थिशब्दः तदन्तात्तत्पुरुषाट्टच् स्यादित्यर्थः । उत्तरसक्थमिति ॥ उत्तरं सक्थीति विग्रहः । पूर्वं सक्थीति विग्रहे ‘पूर्वकाल' इति समासः । फलकसक्थमिति ॥ फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात् समासः । सर्वत्र टच् टिलोपः । नावो द्विगोः ॥ नतु तद्धितलुकीति ॥ ‘गोरतद्धितलुकि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः। द्विनावरूप्य इति ॥ तद्धितार्थे समासः, टच्, आवादेशः । हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः तस्य ‘द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्य आह । द्विगोर्लुगनपत्ये इत्यत्रेति ॥ अपकर्षणादिति ॥ 'गोत्रे लुगचि' इत्युत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति ॥ पञ्च नावः प्रियाः यस्येति विग्रहे उत्तरपदे द्विगुः, टच्, आवादेशः । द्विनावमिति ॥ द्वयोः नावोः समाहार


मण्डूकप्लुत्या “अतद्धितलुकि' इत्यनुवर्तते । इति शेखरकृत् ।