पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२६

पुटमेतत् सुपुष्टितम्
५४०
[असाधारण
सिद्धान्तकौमुदीसहिता

८०२ । अर्धाच्च । (५-४-१००)

अर्धान्नावष्टच्स्यात् । नावोऽर्धम्-अर्धनावम् । क्लीवत्वं लोकात् ।

८०३ । खार्याः प्राचाम् । (५-४-१०१)

द्विगोरर्धाच्च खार्याष्टज्वा स्यात् । द्विखारम्-द्विखारि । अर्धखारम् -अर्धखारी ।

८०४ । द्वित्रिभ्यामञ्जलेः (५-४-१०२)

टज्वा स्याद्द्विगौ । व्द्यञ्जलम् । व्द्यञ्जलि । “अतद्धितलुकि' इत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो व्द्यञ्जलिः ।

८०५ । ब्रह्मणो जानपदाख्यायाम् । (५-४-१०४ )

ब्रह्मान्तात्तत्पुरुषाट्टच्स्यात्समासेन जानपदत्वमाख्यायते चेत् । सुराष्ट्रे ब्रह्मा सुराष्ट्रब्रह्मः ।


इति विग्रहे द्विगुः, टच् , आवादेशः,'स नपुंसकम्' इति नपुंसकत्वम्।त्रिनावमिति ॥ तिसृणां नावां समाहार इति विग्रहः । द्विनाववत् । पञ्चनौरिति ॥ तद्धितार्थे समासः । आर्हीयष्ठक् 'अध्द्यर्ध' लुक् । अर्ध्दाच्च ॥ अर्द्धशब्दात् परो या नौशब्दः तदन्तात् तत्पुरुषाट्टजित्यर्थः । अर्द्धनावमिति ॥ ‘अर्द्धन्नपुंसकम्' इति समासः, टच्, आवादेशः । अत्र ‘परवल्लिङ्गम् इति स्त्रीत्वमाशङ्खय आह । क्लीवत्वं लोकादिति ॥ खार्या:प्राचाम् ॥ खारीशब्दान्तात् द्विगोः, अर्द्धपूर्वकात् खारीशब्दान्तात्तत्पुरुषाच्चेत्यर्थः । द्विखारमिति ॥ द्वयोः खार्योः समाहर इति विग्रहे द्विगुः । टचु “यस्येति च' “स नपुंसकम्' इति नपुंसकत्वम् । टजभाव पक्षे “स नपुंसकम्' इति नपुंसकत्वान्नपुंसकह्रस्वः । अर्द्धखारमिति ॥ खार्या अर्द्धमिति विग्रहः । ‘अर्द्धन्नपुसकम्' इति समासः, टच्, यस्येति च । क्लीबत्वं लोकात् । अर्द्धखारीति ॥पूर्ववत् समासः । टजभावपक्षे “परवल्लिङ्गम्’ इति स्त्रीत्वम् । एकविभक्तावषष्ठ्यन्तवचनादुपसर्जनत्वाभावान्न ह्रस्वः । अर्धखारीति क्वचिध्द्रस्वान्तपाठः । तदा क्लीबत्वं लोकात्, ततो नपुंसकह्रस्वः । द्वित्रिभ्यामञ्जलेः ॥ शेषपूरणेन सूत्रं व्याचष्टे । 'टज्वा स्यादिति ॥'द्विगाविति ॥ ह्यञ्जलमिति ॥ द्वयोरञ्जल्योस्समाहार इति विग्रहे द्विगुः, टच्, ‘यस्येति च' ‘स नपुंसकम्’ । द्वयञ्जलीति ॥ समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । तद्वितलुकीत्येवेति ॥ अनुवर्तते एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति ॥ अञ्जलिशब्दः अञ्जलेि परिमितधान्यादौ वर्तते । केवलस्याञ्जलेः मूल्यत्वासम्भवात् परिमाणत्वात् ठञ् । “अध्द्यर्ध इति तस्य लुक् । ब्रह्मणो जानपदाख्यायाम् ॥ जनपदे भवो जानपदः भावप्रधानो "निर्देशः । तस्य कोनाख्येत्याकांक्षायाम् प्रकृतत्वात् समासेनेति लभ्यते । तदाह । समासेनजानपदत्वमाख्यायते चेदिति ॥ जानपदत्वमित्यनन्तरं ब्रह्मण इति शेषः । सुराष्ट्रे