पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२७

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५४१
बालमनोरमा

८०६ । कुमहभ्द्यामन्यतरस्याम् । (५-४-१०५)

आभ्यां ब्रह्मणो वा टच्स्यात्तत्पुरुषे । कुत्सितो ब्रह्मा कुब्रह्म:-कुब्रह्मा ।

८०७ । आन्महतः समानाधिकरणजातीययोः । (६-३-४६) महतः आकारोऽन्तादेशः स्यात्समानाधिकरणे उत्तरपदे जातीये च परे । महाब्रह्म:-महाब्रह्मा ।महादेवः। महाजातीयः । “ समानाधिकरणे किम् । महतः सेवा-महत्सेवा । लाक्षणिकं विहाय प्रतिपदोक्तः “ सन्महत् (सू ७४०) इति समासो ग्रहीष्यत इति चेत् 'महाबाहुः' न स्यात् । तस्मात्


ब्रह्मेति ॥ ब्रह्मशब्दोऽत्र पुलिङ्गः । ब्रह्मा विप्रः । 'वदस्तत्वन्तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः' इत्यमरः । सप्तमीति योगविभागात् समासः । टच्, टिलोपः 'परवल्लिङ्गम्’ इति पुंस्त्वम्, जनपदेति किम् । देवब्रह्मा नारदः । कुमहद्भयामन्यतरस्याम्कुब्रह्मेति ॥ टजभावे रूपम्, 'कुगतिप्रादयः' इति समासः । कुब्रह्मः इति ॥ टचि रूपं, टिलोपः । अथ महत्पूर्वस्य टज्विकल्पमुदाहरिष्यन् विशेषमाह । आन्महतः ॥ 'अलुगुत्तरपद' इत्युत्तरपदाधकारस्थमिदं सूत्रम् । उत्तरपदे इत्यनुवृत्तं समानाधिकरणपदे अन्वेति, नतु जातीय इति । तस्य प्रत्ययत्वात् । तदाह । महत आत्वमित्यादिना ॥ महाब्रह्म इति ॥ महांश्चासौ ब्रह्मा चेति विग्रहः । “सन्महत्' इत्यादिना समासः । आत्त्वम् । सवर्णदीर्घः । 'कुमहद्भ्याम्' इति टच् । टिलोपः, 'परवलिङ्गम्’ इति पुंस्त्वम् । महाब्रह्मेति ॥ टजभावे आत्वे रूपम् । अथ प्रसङ्गादुक्तमात्त्वविधिं प्रपञ्चयिष्यन् समानाधिकरणे पुनरुदाहरति । महादेव इति ॥ जातीये उदाहरति । महाजातीय इति ॥ महत्सदृश इत्यर्थः । प्रकारवचने जातीयर्, आत्त्वम्, सवर्णदीर्घः । समानाधिकरणे किमिति ॥ आन्महतो जातीये चेत्येवास्तु । चकारादुत्तरपदसमुच्चये सति महत आत्त्वम् स्यात्, उत्तरपदे जातीये च परत इत्यर्थलाभादेव महादेव इत्यादिसिद्धेः किं समानाधिकरणेनेति प्रश्नः । महतः सेवा महत्सेवेति ॥अत्र षष्ठीसमासे आत्त्वनिवृत्त्यर्थे समानाधिकरणग्रहणमिति भावः । ननु षष्ठीसमासो लाक्षणिकः, समस्यमानपदं विशिष्य अनुच्चार्य सामान्यशास्रत एव निर्वर्तितत्वात् । 'सन्महत्' इत्ययं समासतु सन्महदादिशब्दं समस्यमानं विशिष्योच्चार्य विहितत्वात् प्रतिपदोक्तः । ततश्च लक्षणप्रदिपदोक्तपरिभाषया आन्महतो जातीये चेत्यत्र ‘सन्महत्’ इति प्रतिपदोक्तसमासोत्तरपदग्रहणे सति तत एव षष्ठीसमासोत्तरपदनिराससम्भवाव्द्यर्थमेव समानाधिकरणग्रहणामिति शङ्कते । लाक्षणिकमित्यादिना ॥ परिहरति । महाबाहुर्न स्यादिति ॥ महान्तौ बाहू यस्येति विग्रहः । अस्य समासस्य 'अनेकमन्यपदार्थे' इति सामान्यविहितत्वात् प्रतिपदो- त्क्तत्वाभावात्तदुत्तरपदे परे आत्त्वन्न स्यात्, अतस्समानाधिकरणग्रहणामित्यर्थः । ननु कृतेऽपि समानाधिकरणग्रहणे लक्षणप्रतिपदोक्तपरिभाषाप्रवृत्तेदुर्वारत्वात् महाबाहुरित्यत्रात्त्वं न स्यादेवेत्यत आह । तस्मादिति ॥ तच्छब्दार्थमाह । समानाधिकरणग्रहणसामर्थ्या