पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२८

पुटमेतत् सुपुष्टितम्
५४२
[असाधारण
सिद्धान्तकौमुदीसहिता

'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य' (प ११४) इति परिभाषा नेह प्रवर्तते। समानाधिकरणग्रहणसामर्थ्यात् । ' आत्' इति योगविभागादात्त्वं 'प्रागेकादशभ्यः-' (सू १९९५) इति निर्देशाद्वा । एकादश । महतीशब्दस्य 'पुंवत्कर्मधारय-' (सू ७४६) इति पुंवद्भावे कृते आत्वम् । महाजातीया । “महत: आत्त्वे घासकरविशिष्टेषूपसङ्खयानं पुंवद्भावश्च' (वा ३९५०) । असामानाधिकरण्यार्थमिदम् । महतो महत्या वा घासो महाघासः । महाकरः । महाविशिष्टः । 'अष्टनः कपाले हविषि' (वा ३९५१) । अष्टाकपाल: । 'गवि च युक्ते' (वा ३९५२) । गोशब्दे परे युक्त इत्यर्थे गम्येऽष्टन आत्वं स्यात् । अष्टागाव शकटम् । 'अच्प्रत्यन्वव-' (सू ९४३) इत्यत्र “अच्’ इति योग-


दिति ॥ एवं च लक्षणप्रतिपदोक्तपरिभाषां बाधित्वा लाक्षणिकस्यापि ग्रहणार्थे समानाधिकरणग्रहणमिति भावः । नच सुमहान्तौ बाहू यस्य सः सुमहाबाहुरित्यत्र कथमात्त्वम् । आत्त्वविधेः पदाङ्गाधिकारस्थत्वाभावेन तदन्तविध्यभावादिति वाच्यम् । उत्तरपदाक्षिप्तपूर्वपदस्य महता विशेषणे सति तदन्तविधिलाभात् । परममहत्परिमाणवानित्यत्र तु महतः परिमाणं महत्परिमाणं परमं महत्परिमाणमिति षष्ठीसमासगर्भः कर्मधारय इति दिक् । ननु “आन्महतः' इत्यत्र महत एव ग्रहणात् ' ह्यष्टनः’ इत्युत्तरसूत्रे व्द्यष्टनोरेव ग्रहणात् एका दशेत्यत्र कथमात्त्वमित्यत आह । आदिति योगविभागादात्त्वमिति ॥ योगविभागस्य भाष्यादृष्टत्वादाह । प्रागेकादशभ्य इति निर्देशाद्वेति ॥ एकादशेति ॥ एकश्च दश चेति द्वन्द्वः । एकाधिका दशेति वा । आन्महत इत्यत्र लिङ्गविशिष्टपरिभाषया महतीशब्दस्यापि जातीयर्प्रत्यये परे महतीजातीयेति स्यादित्यत आह । महतीशब्दस्येति ॥ नच परत्वात्पुंवत्वं बाधित्वा आत्वं स्यादिति वाच्यम् । 'आन्महत:’ इत्यत्र लिङ्गविशिष्टपरिभाषा न प्रवर्तत इति ङ्याप्सूत्रे भाष्ये उक्तत्वादिति भावः । महतः आात्वेति ॥ घास, कर, विशिष्ट, एषु परतः महत आत्वं पुंवत्वञ्च वक्तव्यमित्यर्थः । ननु 'आन्महतः’ इत्यात्त्वे 'पुंवत्कर्मधारय' इति पुंवत्वे च सिद्धे किमर्थमिदमित्यत आह । असामानाधिकरण्यार्थमिदमिति ॥ महाकर इति ॥ महतो महत्या वा कर इत्यर्थः । महाविशिष्ट इति । महतो महत्या वा विशिष्टः । अधिक इत्यर्थः । अष्टन इति । कपाले उत्तरपदे हविषि वाच्ये अष्टन आत्त्वं वक्तव्यमित्यर्थः । अष्टाकपाल इति ॥ अष्टसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे तद्धितार्थे द्विगुः । 'संस्कृतं भक्षाः' इत्यण् । 'द्विगोर्लुगनपत्ये' इति लुक् । आत्त्वं, सवर्णदीर्घः । गवि च युक्ते इति ॥ वार्तिकमिदम् । तत्सूचयितुमाह । वक्तव्यमित्यर्थ इति ॥ अष्टागवं शकटमिति ॥ अष्टौ गावो यस्येति बहुव्रीहिः । आत्त्वं, सवर्णदीर्घः । अष्टभिर्गोभिर्युक्तमित्यर्थः । ननु 'गोरतद्धितलुकेि' इति टज्विधेस्तत्पुरुषमात्रविषयत्वात् अष्टागवमिति कथमित्यत आह । अच्प्रत्यन्ववेत्यत्रेति ॥ तत्पुरुषत्वे अष्टागवशब्दष्टजन्त एवेत्याह । अष्टा-