पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/२९

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५४३
बालमनोरमा


विभागाद्वहुव्रीहावप्यच् । 'अष्टानां गवां समाहारोऽष्टगवम्' तद्युक्तत्वाच्छकटमष्टागवमिति वा ।

८०८ । द्वयष्टनः सङ्खयायामबहुव्रीह्यशीत्योः । (६-३-४७)

आत्स्यात् । द्वौ च दश च द्वादश । द्यधिका दशेति वा । द्वाविंशतिः । अष्टादश। अष्टाविंशतिः । 'अबहुव्रीह्यशीत्योः' किम् । द्वित्राः । व्द्यशीति:। प्राक्शताद्वक्तव्यम्’ (वा ३९५३) । नेह । द्विशतम् । द्विसहस्रम् ।

८०९ । त्रेस्त्रयः । (६-३-४८)

त्रिशब्दस्य 'त्रयस्' स्यात्पूर्वविषये । त्रयोदश । त्रयोविंशतिः । बहुव्रीहौ तु । त्रिर्दश येषां ते त्रिदशाः । सुजर्थे बहुव्रीहिः । अशीतौ तु त्र्यशीतिः । 'प्राक्छतात्' इत्येव । त्रिशतम् । त्रिसहस्रम् ।


नामिति ॥ तथाच समाहारद्विगोस्तत्पुरुषत्वात् 'गोरतद्धितलुकि' इति टच् सुलभ इत्यर्थः । नन्वष्टानां गवां समाहार इत्यर्थे शकटे कथमन्वयः, युक्तार्थवृत्तित्वाभावात्कंथं वा आत्वमित्यत आह । तद्युक्तत्वादिति ॥ समाहाराद्विगुरूपतत्पुरुषाट्टचि उत्पन्नस्य अष्टगवशब्दस्य लक्षणया अष्टभिगॉभिर्युक्ते वर्तमानस्य आत्वमित्यर्थः । ह्यष्टनः ॥ शेषपूरणेन सूत्रं व्याचष्टे । आत्स्यादिति ॥ द्विशब्दस्य अष्टन्शब्दस्य च सङ्खयावाचके उत्तरपदे परे आत्स्यात्, न तु बहुव्रीह्यशीत्योरित्यर्थः । द्विशब्दस्योदाहरति । द्वादशेति ॥ द्वौ च एकश्च ह्येकाः, ह्याधिकः एकः ह्येका इत्यादौ तु नास्ति । "एकादिनवान्तानां परस्परं द्वन्द्वतत्पुरुषौ न स्तः” इति 'चार्थे' इति सूत्रे भाष्ये ध्वनितत्वादिति शब्देन्दुशेखरे स्थितम् । द्वाविंशतिरिति ॥ द्वौ च विंशतिश्चेति समाहारद्वन्द्वः । 'स नपुंसकम्' इति क्लीबत्वन्तु न । किन्तु लोकात् स्त्रीत्वम् । इतरेतरयोगस्तु न । अनभिधानात् । व्द्यधिका विंशतिरिति तत्पुरुषो वा । अथाष्टन्शब्दस्योदाहरति । अष्टादशेति ॥ अष्टौ च दश चेति द्वन्द्वः । अष्टाधिका दशेति वा । अष्टाविंशतिरिति ॥ अष्टौ च विंशतिश्चेति समाहारद्वन्द्वः। स्त्रीत्वं लोकात् । अष्टाधिका विंशतिरिति वा । द्वित्रा इति ॥ द्वौ वा त्रयो वेति विग्रहः । ‘संख्याव्यय'इति बहुव्रीहिः । 'बहुव्रीहौ संख्येये डच्’ इति डचु। बहुव्रीहित्वादत्र द्विशब्दस्य आत्त्वन्न । व्द्यशीतिरिति ॥ द्वैौ चाशीतिश्चेति समाहारद्वन्द्वः । स्रीत्वं लोकात् । व्द्यधिका अशीतिरिति वा । अत्राशीतिपरकत्वात् द्विशब्दस्यात्वन्न । प्राक्शतादिति ॥ “अष्टनस्सङ्खयायाम्' इत्येतत् शतप्रभृतिसङ्खयाशब्दे परे न भवतीति वक्तव्यमित्यर्थः । द्विशतमिति ॥ द्वौ च शतश्चेति समाहारद्वन्द्वः । ह्यधिकं शतमिति वा । एवं द्विसहस्रमित्यत्रापि । त्रेस्रयः ॥ सन्धिवेलादिषु त्रयोदशेति पाठात् सकारान्तोऽयमादेश इत्याह । त्रयस्यादिति ॥ पूर्वविषये इति ॥ प्राक्शतात् । सङ्खयाशब्दे उत्तरपदे परतः, नतु बहुव्रीह्यशीत्योरित्यर्थः । त्रयोदशेति ॥ त्रयश्च दश चेति, त्र्यधिका दशेति