पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३०

पुटमेतत् सुपुष्टितम्
५४४
[असाधारण
सिद्धान्तकौमुदीसहिता

८१० । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । (६-३-४९)

व्ह्यष्टनोस्रेश्च प्रागुक्तं वा स्याच्चत्वारिंशदादौ परे । द्विचत्वारिंशत्-द्वा- चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत्-त्रिचत्वारिंशत्-त्रयश्चत्वारिं शत् । एवं पञ्चाशत्षष्टिसप्ततिनवतिषु ।

८११ । एकादिश्चैकस्य चादुक् । (६-३-७६)

एकादिर्नञ्प्रकृत्या स्यादेकस्य चादुगागमश्च । नञो विंशत्या समासे कृते एकशब्देन सह 'तृतीया' इति योगविभागात्समासः । अनुनासिकविकल्पः । एकेन न विंशति: एकान्नविंशतिः-एकाद्रविंशति : । एकोनविंशतिरित्यर्थः । 'षष उत्त्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वेति वाच्यम्' (वा ४००१-४००२) । षोडन्-षोडश-षोढा-षड्धा ।


वा विग्रहः । सुब्लुकि त्रिशब्दस्य त्रयस्, रुत्वम्, उत्त्वम्, आद्गुणः । एवं त्रयोविंशतिरित्यपि । त्रिदशा इति ॥ त्रिरावृत्ता दशेत्यर्थः । “बहुव्रीहौ सङ्ख्येये डच्’ इति डच् । नन्वत्र त्रिरित्यस्य 'सङ्ख्यायाः क्रियाभ्यावृतिगणने कृत्वसुच्’ ‘द्वित्रिचतुर्भ्यस्सुच्' इति सुजन्तत्वात् समासेऽपि सुचः श्रवणापत्तिरित्यत आह । सुजर्थे बहुव्रीहिरिति ॥ सुजर्थे क्रियाभ्यावृत्तौ लक्षणया विद्यमानस्य त्रिशब्दस्यैवात्र ‘सङ्खयाव्यये' इति बहुव्रीहिः । न तु सुजन्तस्येत्यर्थः । त्र्यशीतिरिति ॥ त्रयश्चाशीतिश्चेति समाहारद्वन्द्वः । स्त्रीत्वं लोकात् । त्रधिकाशीतिरिति वा । त्रिशतमिति ॥ त्रयश्च शतश्चेति समाहारद्वन्द्वः, त्रधिकं शतमिति वा । एवं त्रिसहस्रमित्यपि । विभाषा चत्वारिंशत् ॥ व्यवहितस्यापि ह्यष्टनोरित्यस्यस्य सम्बन्धाय सर्वेषामिति । व्ह्यष्टनोस्त्रेश्चेत्यर्थः । तदाह । द्वयष्टनोस्त्रेश्चेति॥ एकादिश्च॥'नलोपो नञः'इत्यतः नञ्ज इति षष्ठयन्तमनुवर्तते । तच्च प्रथमया विपरिणम्यते । “न भ्राण्नपात्' इत्यतः प्रकृत्येत्यनुवर्तते । तदाह । एकादिर्नञ् प्रकृत्येति ॥ एकः आदिर्यस्येति विग्रहः । एकस्य चादुगागमश्चेति ॥ आदुगिति अदुगिति वा छेदः । नञो विंशत्येति ॥ न विंशतिरिति विग्रहे नञ्समासे सति नविंशतिशब्दस्य एकशब्देन तृतीयान्तेन सह एकेन नविंशतिरिति विग्रहे समास इत्यन्वयः । ननु प्रकृतिविकृतिभावाद्यभावात् कथमिह तृतीयासमास इत्यत आह । तृतीयेति योगविभागादिति ॥ अनुनासिकविकल्प इति ॥ तृतीयासमासे कृते सुब्लुकि एक न विंशति इति स्थिते ‘नलोपो नञः’ इति प्राप्तस्य नकारलोपस्य प्रकृतिभावान्निवृत्तौ एकशब्दस्यादुगागमः, तत्र अकार इत् उकार उच्चारणार्थः । कित्त्वादन्तावयवः, सवर्णदीर्घः, एकाद्भर्विंशतिरिति स्थिते ‘यरोऽनुनासिके' इति दकारस्य पक्षे अनुनासिकनकार इत्यर्थः । अदुगागमपक्षेऽपि पररूपन्तु अकारोच्चारणसामर्थ्यान्न भवति । एकेन न विंशतिरिति विग्रहवाक्यम्। एकेन हेतुना विंशतिर्न भवतीत्यर्थः । एकान्न विंशतिः, एकाद्नविंशतिरिति ॥