पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३१

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५४५
बालमनोरमा

८१२ । परवल्लिंङ्गं द्वन्द्वतत्पुरुषयोः । (२-४-२६)

एतयोः परपद्स्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । 'द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधो वाच्यः' (वा १५४५) । पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाशः । प्राप्तो


अनुनासिकत्वे तदभावे च रूपम् । एकोनविंशतिरित्यर्थ इति ॥ पर्यवस्यतीति शेषः । एकेन ऊनेति विग्रहः । ‘पूर्वसदृश'इति समासः । षष उत्वमिति ॥ दतृशब्दे दशन्शब्द च उत्तरपदे परे धाप्रत्यये च परे षष्शब्दस्य उत्वं उत्तरखण्डस्य दतृशब्दस्य दशन्शब्दस्य धाप्रत्ययस्य च आदेर्दकारस्य धकारस्य च टुत्वञ्च वक्तव्यमित्यर्थः । टुत्वमित्येव छेदः। न तु ष्टुत्वमिति प्रयोजनाभावात् । ‘धासु वा’ इति बहुवचनाद्विधार्थधाप्रत्ययस्यैव ग्रह्णमिति भाव्यम् । धाप्रत्यये परे षष उत्त्वं वा स्यात् । टुत्वन्तु उत्वपक्षे तदभावपक्षे च पूर्ववाक्यान्नित्यमेवेति कैयटः । उत्त्वपक्ष एव नित्य टुत्वमिति हरदत्तः । षोडन्निति ॥ षट् दन्ता यस्येति बहुव्रीहौ वयसि दन्तस्य दतृ' इति दत्रादेशः, ऋकारस्य इत्वम् । अन्त्यषकारस्य उत्त्वम् । आद्गुणः, दकारस्य टुत्वेन डकारः, सुप्रत्यये उगित्वान्नुम्, सुलोपः, संयेोगान्तलोपः । तस्यासिद्धत्वान्न दीर्घः । षोडन् इति रूपम् । षोडशेति ॥ षट् च दशचेति, षडधिका दशेति वा विग्रहः । अन्त्यस्य षकारस्य उत्त्वम्, आद्गुणः, दकारस्य टुत्वेन डकारः । हरदत्तमतमनुस्मृत्य उत्त्वाभावपक्षे धासु वेत्यस्योदाहरति । षड्धेति ॥ “सङ्ख्याया विधार्थे धा' अन्त्यस्य षकारस्य उत्त्वाभावपक्षे तु टुत्वमपि न भवति । “झलाञ्जशोऽन्त' इति जश्त्वेन षकारस्य ड इति भावः । उत्त्वपक्षे उदाहरति । षोढेति ॥ धाप्रत्ययः, अन्त्यस्य षकारस्य उत्त्वम्, आद्गुणः टुत्वेन धस्य ढ इति भावः । कैयटमते तु उत्वाभावपक्षेऽपि टुत्वन्नित्यमेव । षड्ढा । कैयटमतमेव युक्तम् । षोढा, षड्ढा, इत्येव भाष्ये उदाहृतत्वादिति शब्देन्दुशेखरे स्थितम् । परवलिङ्गम् ॥ परवदिति षष्ठ्यन्ताद्वतिः । तदाह । ŵ एतयोः परपदस्येवेति ॥ द्वन्द्वपदमत्र इतरेतरयोगद्वन्द्वपरम् । समाहारद्वन्द्वे 'स नपुंसकम्' इत्यस्य तदपवादत्वात् । कुक्कुटमयूर्याविमे इति ॥ अत्र द्वन्द्वे अवयवलिङ्गनानियमे प्राप्ते नियमार्थमिदम् । अर्धपिप्पलीति ॥अर्धन्नपुंसकम्' इति तत्पुरुषः । अस्य एकदेशिसमासस्य पूर्वपदार्थप्रधानतया पूर्वपदालिङ्गे प्राप्ते उत्तरपदलिङ्गाथै विधिः । अत्र द्वन्द्वतत्पुरुषयोः' इति षष्ठयन्तमर्थपरम् । द्वन्द्वतत्पुरुषार्थयोरिति अर्थः । एवञ्च कुक्कुटमयूर्याविमे इत्यनुप्रयोगेऽपि तदेव लिङ्गम् । द्विगुप्राप्तेति ॥ प्राप्त, आपन्न, अलम्पूर्व, गतिसमास एतेषु परवलिङ्गस्य प्रतिषेधो वक्तव्य इत्यर्थः । पञ्चस्विति ॥ ș उत्तरपदस्य नपुंसकत्वात् समासस्य नपुंसकत्वं प्राप्तन्न भवति, किन्तु विशेष्यलिङ्गमेव । प्राप्तजीविक इति ॥ अत्र उत्तरपदस्य जीविकाशब्दस्य यलिङ्गं तत्समासस्य न भवतैि। अलंपूर्वस्योदाहरति । अलं कुमार्यै, अलंकुमारिरिति ॥ अत्र उत्तरपदकुमारीलिङ्गं समासस्य न भवति । नन्वत्र तदर्थादियोगाभावान्न चतुर्थीसमासः । 'पर्यादयो ग्लानाद्यर्थे' इत्यपि न भवति । तस्य समासस्य नित्यत्वेन अलं कुमार्यै इति भाष्ये विप्रहप्रदर्शनानुपपत्तेरित्यत