पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३३

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५४७
बालमनोरमा

८१५ । अपथं नपुंसकम् । (२-४-३०)

तत्पुरुषः' इत्येव । अन्यत्र तु, अपथो देशः । कृतसमासान्तनिर्देशान्नेह । अपन्थाः ।

८१६ । अर्धर्चाः पुंसि च । (२-४-३१)

अर्धर्चादयः शब्दाः पुंसि क्लीबे च स्युः । अर्धर्चः-अर्धर्चम् । ध्वज:- ध्वजम् । एवं तीर्थशरीरमण्डपीयूषदेहाङ्कुशकलशेत्यादि ।

८१७ । जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् । (१-२-५८)

एकोऽप्यर्थो वा बहुवद्भवति । ब्राह्मणाः पूज्याः-ब्राह्मणः पूज्यः ।

८१८ । अस्मदो द्वयोश्च । (१-२-५९)

एकत्वे द्वित्वे च विवक्षितेऽस्मदो बहुवचनं वा स्यात् । वयं ब्रूमः । पक्षेऽहं ब्रवीमि । “आवां ब्रूवः' इति वा । “सविशेषणस्य प्रतिषेधः’ (वा ७२१) । पटुरहं ब्रवीमि ।

८१९ । फल्गुनीप्रोष्ठपदानां च नक्षत्रे । (१-२-३०)


गणरात्रमिति ॥ गणशब्दे बहुपर्यायः, 'बहुगणवतु' इति सङ्ख्यात्वम् । गणानां रात्रीणां समाहार इति द्विगुः, अच् । अपथन्नपुंसकम् ॥ न पन्थाः इति विग्रहे नञ्समासे नञो नस्य लोपे 'ऋक्पूः' इत्यप्रत्यये टिलोपे अपथशब्दः, स नपुंसकमित्यर्थः । परवल्लिङ्गतापवादः । तत्पुरुष इत्येवेति ॥ 'परवल्लिङ्गम्' इत्यतदस्तनुवृत्तेरिति भावः । द्वन्द्रग्रहणन्तु नानुवर्तते । अयोग्यत्वात् । अन्यत्र त्विति ॥ बहुव्रीहावित्यर्थः । अपन्थाः इति ॥ 'पथेो विभाषा' इति समासान्तविकल्पः । 'पथस्सङ्ख्याव्ययादेः' इति वक्ष्यमाणवार्तिकेन गतार्थमेवेदं सूत्रम् । अर्धचाः ॥ बहुवचनात्तदादीनां ग्रहणमित्याह । अर्धर्चादय इति ॥ अर्धर्चमिति ॥ ऋचोऽर्धमिति विग्रहे “अर्धन्नपुंसकम्' इति समासः । “ऋक्पूः' इति अच् । परवल्लिङ्गं स्त्रीत्वं बाधित्वा पुन्नपुंसकत्वविकल्पः । जात्याख्यायां ॥ आकृत्यधिकरणन्यायेन घटादिशब्दानां जातिवाचकत्वाज्जातेश्चैकत्वादेकवचनमेव स्यादित्यारम्भः। जातिशब्द एकत्वे बहुवचनं वा स्यादित्यक्षरार्थः । तथा सति ब्राह्मणाः भोज्याः इत्यादौ विशेषणान्न स्यादित्याशङ्क्य एकस्मिन्नर्थे विद्यमानश्शब्दः बहूनर्थान् वक्ति। एकार्थो बहुवद्भवतीति लभ्यते इत्यभिप्रेत्य आह । एकोऽप्यर्थ इति ॥ बहुत्वप्रयुक्तं कार्यं लभते इत्यर्थः । अस्मदो द्वयोश्च ॥ सविशेषणस्येति ॥ “त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः” इत्यत्र तु अवयवगतबहुत्वाभिप्रायं बहुवचनम्। फल्गुनी ॥ नक्षत्रे इति प्रथमाद्विवचनम् । नक्षत्रे यद्यभिधीयेते इत्यर्थः । चेन द्वयोरित्यनुकर्षः । तदाह ।