पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३४

पुटमेतत् सुपुष्टितम्
५४८
[असाधारण
सिद्धान्तकौमुदीसहिता

द्वित्वे बहुत्वप्रयुक्तं कार्यं वा स्यात् । पूर्वे फल्गुन्यै-पूर्वाः फल्गुन्यः । पूर्वे प्रोष्ठपदे-पूर्वाः प्रोष्ठपदाः । 'नक्षत्रे' किम् । पूर्वफल्गुन्यौ माणविके ।

८२० । तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनं नित्यम् । (१-२-६३)

बहुत्वं द्वित्ववद्भवति । तिष्यश्च पुनर्वसू च तिष्यपुनर्वसू । 'तिष्य --' इति किम् । विशाखानूराधाः 'नक्षत्र' इति किम् । तिष्यपुनर्वसवो माणवकाः ।

८२१ । स नपुंसकम् । (२-४-१७)

समाहारे द्विगुर्द्धन्द्वश्च नपुंसकं स्यात् । परवल्लिङ्गापवादः । पञ्चगवम् । दन्तोष्ठम् । ' अकारान्तोत्तरपदो द्विगुः स्रियामिष्टः' (वा १५५६) । पञ्चपूली । 'आबन्तो वा' (वा १५५७) । पञ्चखट्वम्-पश्चखट्वी । 'अनो नलोपश्च वा च द्विगुः स्त्रियाम्' (वा १५५८) । पञ्चतक्षी-पञ्चतक्षम् ।


द्वित्वे इति ॥ पूर्वे प्रोष्ठपदे इति ॥ स्त्रीत्वादौङश्शीभाव । “प्रोष्ठपदा भाद्रपदा स्त्रियाम् ” इत्यमरः । पूर्वफल्गुन्यौ माणविके इति ॥ फल्गुनीनक्षत्रयुक्तकाले जाते इत्यर्थः । 'नक्षत्रेण युक्तः' इत्यण् । “लुबविशेषे' इति लुप् । ततो जातार्थे 'फल्गुन्यषाढाभ्यां टानौ' इति टः । टित्वात् ङीप् । तिष्यपुनर्वस्वोः ॥ विशाखानूराधा इति ॥ विशाखे च अनूराधाश्चेति विग्रहः । तिष्यपुनर्वसव इति ॥ तिष्यश्च पुनर्वसू चेति विग्रहः । तिष्य शब्दात् पुनर्वसूशब्दाच्च 'नक्षत्रेण युक्तः' इत्यण् । 'लुबविशेषे' इति लुप् । ततो जातार्थे सन्धिवेलाद्यण् । 'श्रविष्ठाफल्गुनी' इत्यादिना लुक् । जात्याख्यायामित्यादिचतुस्सूत्र्या अत्र सङ्गतिश्चिन्त्या । स नपुंसकम् ॥ 'द्विगुरेकवचनम्' इति द्विगुः, 'द्वन्द्वश्च प्राणि' इति द्वन्द्वश्च तच्छब्देन परामृश्यते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह । समाहारे इति ॥ पञ्चगवमिति ॥ पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्टमिति ॥ दन्ताश्च ओष्ठौ चेति विग्रहः । ' द्वन्द्वश्व प्राणि' इति समाहारद्वन्द्व । अकारान्तेति ॥ अकारान्तम् उत्तरपदं यस्येति विग्रहः । 'स नपुंसकम्' इत्यस्यापवादः । पञ्चपूलीति ॥ समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः’ इति ङीप् । आाबन्तो वेति ॥ स्त्रियां वेति वक्तव्यमित्यर्थः । पञ्चखट्वमिति ॥ समाहाराद्विगुः । नपुंसकत्वे ह्र्स्वः । पञ्चखट्वीति ॥ उपसर्जनह्रस्वत्वे अदन्तत्वात्, ‘द्विगोः' इति ङीप् । अनो नलोपश्चेति ॥ अन इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपस्यादित्यर्थः । वाग्रहणं त्रियामित्यत्रैव सम्बध्द्यते, नतु, नलोपेऽपि । तेन स्त्रीत्वाभावेऽपि नलोपः । पञ्चतक्षीति ॥ पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं, नलोपः, ‘द्विगोः' इति ङीबिति भावः । पञ्चतक्षमिति ॥ समाहारद्विगुः । स्त्रीत्वाभावपक्षे 'स नपुंसकम्' इति