पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३५

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५४९
बालमनोरमा

'पात्राद्यन्तस्य न' (वा १५५९) । पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् । पुण्यसुदिनाभ्यामहः क्लीबतेष्टा' (वा १५५६) । पुण्याहम् । सुदिनाहम् । 'पथः सङ्ख्याव्ययादेः (वा १५५४) । सङ्ख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्थाः विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्था: । अतिपन्था: । सामान्ये नपुंसकम् (वा ५०४३) । मृदु पचति । प्रातः कमनीयम् ।


नपुंसकत्वं, नलोप इति भावः । न चान्तर्वर्तिनीं विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात् 'नलोपः प्रातिपदिक' इत्यनेन नलोपो भविष्यतीति वाच्यम् । ‘उत्तरपदत्वे च' इति, प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति ॥ पात्रादिर्गणः । तदन्तस्य समाहारद्विगोः न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रम्, त्रिभुवनम्, चतुर्युगमिति ॥ स्त्रीत्वाभावे 'स नपुसकम्’ इति नपुंसकत्वमिति भावः । पुण्येति ॥ पुण्यसुदिनाभ्यां परः यः अहन्शब्दः तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः । “रात्राह्न ' इत्यस्यापवादः । पुण्याहमिति ॥ पुण्यम् अहरिति कर्मधारयः, 'राजाहः’ इति टचु, टिलोप: उत्तमैकाभ्याञ्च ’ इति अह्नादेशनिषेधः । सुदिनाहमिति ॥ सुदिनम् अहरिति कर्मधारयः, टञ्, टिलोपः, प्रशस्तपर्यायस्सुदिनशब्द इति न पौनरुक्त्यम् । पथस्सङ्ख्याव्ययादेरिति ॥ नपुंसकत्वं वक्तव्यमिति शेषः । सङ्ख्याव्ययेति समाहारद्वन्द्वः । सङ्ख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी पर इति शेषः, पथ इति कृतसमासान्तादकारान्तात् प्रथमा । तदाह । सङ्ख्याव्ययादेरिति ॥ परवल्लिङ्गतापवादः । त्रिपथमिति ॥ 'ऋक्पूः’ इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि । 'प्रादयो गताद्यर्थे' इति समासः । सुपन्थाः , अतिपन्थाः इति ॥ स्वती पूजायाम्' इति समासः । ‘न पूजनात्’ इति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे अपथन्नपुंसकम्' इति न कार्यम् । सामान्ये नपुंसकमिति ॥ न्यायसिद्धमेतत् । विशेष्यविशेषणासन्निधाने सति स्त्रीत्वपुंस्त्वयोरनभिव्यक्तौ “उभयोरन्तरं यञ्च तदभावे नपुंसकम्” इति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् । अत एव 'दाण्डिनायन' इति सूत्रभाष्ये एकश्रुतिस्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामेत्युक्तम् । मृदु पचतीति ॥ क्रिया विशेषणमिदं द्वितीयान्तम् । पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्यंशे मृदुत्वमन्वेति । विक्लित्तिश्च व्यापारे साध्यत्वेनान्वेति । तथाच मृदु पाकं करोतीत्यर्थः । तथाच धातूपात्त व्यापारं प्रति कर्मीभूतेन विक्लित्यंशेन सामानाधिकरण्यात् मृद्विति द्वितीया । यत्र तु धात्वर्थः करणत्वेनान्वेति "यजेत स्वर्गकामः” इत्यादैौ तत्रयागेन स्वर्गं कुर्यादित्यर्थः। तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेव, “ज्योतिष्टोमेन यजेत स्वर्गकामः” इत्यादावित्यन्यत्र विस्तरः । प्रात:कमनीयमिति ॥ रमणीयमित्यर्थः । अत्रापि प्रातरित्यव्ययस्य विशेष्यस्यालिङ्गत्वात्


इदश्च युक्तिसिद्धम् । नियतलिङ्गत्वाभावे विशेष्यविशेषासन्निधाने च सर्वलिङ्गवाचकस्य नपुंसकं लिङ्गसर्वनाम' इति 'दाण्डिनायन-'(६-४-१७४) सूत्रभाष्ये न्याय्यत्वेन दर्शितत्वात्।