पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३६

पुटमेतत् सुपुष्टितम्
५५०
[असाधारण
सिद्धान्तकौमुदीसहिता

८२२ । तत्पुरुषोऽनञ्कर्मधारयः । (२-४-१९)

अधिकारोऽयम् ।

८२३ । संज्ञायां कन्थोशीनरेषु । (२-४-२०)

कन्थान्तस्तत्पुरुषः क्लीबं स्यात्साचेदुशीनरदेशोत्पन्नायाः कन्थायाः संज्ञा । सुशमस्यापत्यानि सौशमयः । तेषां कन्था सौशमिकन्थम् । 'संज्ञायाम्' किम् । वीरणकन्था । “उशीनरेषु' किम् । दाक्षिकन्था ।

८२४ । उपज्ञोपक्रमं तदाद्याचिख्यासायाम् । (२-४-२१)

उपाज्ञान्तः उपक्रमान्तश्च तत्पुरुषो नपुंसकं स्यात्, तयोरुपज्ञायमानोप्रक्रम्यमाणयोरादिः प्राथम्यं चेदाख्यातुन्मिष्यते । पाणिनेरूपज्ञा पाणिन्युपज्ञं ग्रन्थः । नन्दोप्रकमं, द्रोणः ।

८२५ । छाया बाहुल्ये । (२-४-२२)

छायान्तस्तत्पुरुषो नपुंसकं स्यात्पूर्वपदार्थबाहुल्ये । इक्षूणां छाया इक्षुच्छायम् । 'विभाषा सेना–' (सू ८२८) इति विकल्पस्यायमपवादः । 'इक्षुच्छायानिषादिन्यः' इति तु 'आ समन्तान्निषादिन्यः' इत्याङ्श्लेषो बोध्यः ।


तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाभावात् नपुंसकत्वमेवति भावः । इदञ्चानियतलिङ्गविषयम् । तेन आदिं पचति प्रातरादिरित्यत्र न भवति । आदिशब्दस्य नियतलिङ्गत्वात् । तत्पुरुषोऽनञ् ॥ नञ्समासकर्मधारयाभ्यां भिन्नस्तत्पुरुषो वक्ष्यमाणकार्यभागित्यर्थः । तदाह । अधिकारोऽयमिति ॥ 'परवल्लिङ्गम्' इत्यतः प्रागिति शेषः । संज्ञायां कन्था ॥ सुगममेव । उपज्ञा ॥ उपज्ञायते प्रथमं ज्ञायत इत्युपज्ञा। ‘स्त्रियां क्तिन्” इत्यधिकारे 'आतश्चोपसर्गे' इति कर्मण्यङ् । उपक्रम्यते आरभ्यते इत्युपक्रमः । कर्मणि घञ् । “नोदात्तोपदेशस्य' इति वृद्धिनिषेधः । उपज्ञाचोपक्रमश्चेति समाहारद्वन्द्वः । तत्पुरुषः इत्यस्य विशेषणमिदम्, तदन्तविधिः, “स नपुंसकम्' इत्यतो नपुंसकमित्यर्थः । तदाह । उपज्ञान्तः उपक्रमान्तश्चेति ॥ तच्छब्देन उपज्ञोपक्रमौ विवक्षितौ । आदिशब्दो भावप्रधानः प्राथम्ये वर्तते । तयोरादिः प्राथम्यं तदादिः । तस्य आचिख्यासा आख्यातुमिच्छा, विवक्षायामिति यावत् । तदाह । तयोरादिरित्यादि ॥ पाणिनेरुपज्ञेति ॥ कर्तरि षष्ठी । पाणिन्युपज्ञं ग्रन्थ इति ॥ पाणिनिना प्रथमं ज्ञायमान इत्यर्थः । इदं प्रकरणं परवल्लिङ्गत्वस्य विशेष्यनिघ्नत्वस्य चापवादः । नन्दोपक्रमं द्रोण इति ॥ नन्देनारभ्यमाण इत्यर्थः । कर्तरि षष्ठया समासः । छाया बाहुळये ॥ छायया तत्पुरुषस्य विशेषणात् तदन्तविधिमाभिप्रेत्य आह । छायान्त इति ॥ पूर्वपदाथेति ॥ कस्य बाहुळ्ये इत्याकाङ्क्षायाम् आपादकद्रव्यनिमित्तकत्वात् छायायाः तद्बाहुळ्ये इति गम्यते । तच्चापादकद्रव्यमर्थात् पूर्वपदार्थभूतमिति भावः ।