पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३७

पुटमेतत् सुपुष्टितम्
समासान्तप्रकरणम्]
५५१
बालमनोरमा

८२३ । सभा राजाऽमनुष्यपूर्वा । (२-४-२३)

राजपर्यायपूर्वोऽमनुष्यपूर्वश्च सभान्तस्तत्पुरुषो नपुंसकं स्यात् । इनसभम्। ईश्वरसभम्। पर्यायस्यैवेष्यते’ (वा ५१९) । नेह । राजसभा । चन्द्रगुप्तसभा। अमनुष्यशब्दो रूढ्या रक्षःपिशाचादीनाह। रक्षःसभम् । पिशाचसभम्।

८२७ । अशाला च । (२-४-२४)

सङ्घातार्था या सभा तदन्तस्तत्पुरुषः क्लीबं स्यात् । स्त्रीसभम् । स्त्रीसङ्घात इत्यर्थः । 'अशाला' किम् । धर्मसभा । धर्मशालेत्यर्थः ।

८२८ । विभाषा सेनासुराच्छायाशालानिशानाम् । (२-४-२५)

एतदन्तस्तत्पुरुषः क्लीबं वा स्यात् । ब्राह्मणसेनम्--ब्राह्मणसेना । यवसुरम्-यवसुरा । कुड्यच्छायम्-कुङयच्छाया । गोशालम्-गोशाला । श्वनिशम्-श्वनिशा । 'तत्पुरुषोऽनञ्कर्मधारयः' (सू ८२२) इत्यनुवृत्तेर्नेह । दृढसेनो राजा । असेना । परमसेना । बाहुळ्ये किम् । कुड्यस्य छाया कुड्यच्छाया । सभा ॥ राजा च अमनुष्यश्च राजामनुष्यौ तौ पूर्वौ यस्यास्सा राजाऽमनुष्यपूर्वा इति विग्रहः । सभया तत्पुरुषविशेषणात्तदन्तविधिः । राजशब्दो राजपर्याय एव विवक्षितः, न तु राजन्शब्दः । तदाह । राजपर्यायपूर्व इति ॥ इनसभमीश्वरसभमिति ॥ इनस्य ईश्वरस्य वा सभेति विग्रहः । इनेश्वरशब्दौ राजपर्यायाविति भावः । पर्यायमात्रग्रहणे प्रमाणन्दर्शयति । पर्यायस्यैवेष्यत इति ॥ भाष्यकृतेति शेषः । ‘स्वं रूपम्’ इति सूत्रे “क्वचित्पर्यायवचनस्यैव राजाद्यर्थः’ इति वार्तिकै भाष्ये पठितमिति भावः । राजसभेति ॥ राजन्शब्दपूर्वकत्वेऽप्यत्र राजपर्यायपूर्वकत्वं नास्तीति भावः । चन्द्रगुप्तसभेति ॥ चन्द्रगुप्त इति राजविशेषस्य नाम । न तु तत्पर्याय इति भावः । नन्वमनुष्यपूर्वकत्वात् देवसभेत्यादावपि स्यादित्यत आह । अमनुष्यशब्दो रूढ्येति ॥ असुरशब्दो दैत्यानिवेति भावः । अशाला च ॥ अशालार्थकेत्यर्थः । सभाशब्दः शालायां सङ्घातार्थे च वर्तते । तत्र राजाऽमनुष्यपूर्वकस्य शालावाचिनस्सभाशब्दस्य पूर्वसूत्रे क्लीबत्वमुक्तम् । सम्प्रति सङ्घातवाचिनस्सभाशब्दस्य क्लीबत्वमुच्यत इत्याह । सङ्घातार्था या सभेति ॥ सभाशब्द इत्यर्थः । विभाषा सेना॥ प्रथमार्थे षष्ठीतत्पुरुष इत्यनुवृत्तं सेनादिभिर्विशेष्यते । तदन्तविधिः । तदाह । एतदन्त इति ॥ प्रत्येकाभिप्रायमेकवचनम् । श्वनिशमिति ॥ शुनो निशेति विग्रहः। कृष्णचतुर्दशीअत्याहुः। “शुनश्चतुर्दश्यामुपवसतः पश्यामः” इति तिर्यगधिकरणे शाबरभाष्ये स्थितम् । दृढसेन इति ॥ दृढा सेना यस्येति बहुव्रीहिः । तत्पुरुषत्वाभावात् न क्लीबत्वविकल्पः । असेनेति ॥ तत्पुरुषत्वेऽपि नञ्समासत्वान्न क्लीबत्वविकल्पः । परमसेनेति ॥ कर्मधारयत्वात् न क्लीबत्वम् । 'तत्पुरुषोऽनञ्कर्मधारयः’ इत्यधिकारस्य अत्रैव प्रयोजनामिति कैयटे प्रपञ्चितम् ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमायां तत्पुरुषसमासनिरूपणं समाप्तम् ।