पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३८

पुटमेतत् सुपुष्टितम्

श्रीरस्तु

अथ बहुव्रीहिसमासप्रकरणम् ।



८२९ । शेषो बहुव्रीहिः । (२-२-२३)

अधिकारोऽयम् । 'द्वितीया श्रित-' (सू ६८६) इत्यादिना यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेषः प्रथमान्त इत्यर्थः ।

८३० । अनेकमन्यपदार्थे । (२-२-२४)

अनेकं प्रथमान्तमन्यपदार्थे वर्तमानं वा समस्यते स बहुव्रीहिः । अप्रथमाविभक्त्यर्थे बहुव्रीहिरिति समानाधिकरणानामिति च फलितम् । प्राप्तमुदकं यं सः प्राप्तोदको प्रामः । ऊढरथोऽनङ्वान्। उपहृतपशू रुद्रः । उद्धृतौदना


शेषो बहुव्रीहिः ॥ त्रिकस्येति ॥ विभक्तेरित्यर्थः । ननु 'द्वितीया श्रित' इति 'तृतीया तत्कृत' इति “चतुर्थी तदर्थ' इति “पञ्चमी भयेन' इति 'सप्तमी शौण्डैः’ इति 'षष्ठी च' इति द्वितीयादिविभक्तीनां षण्णां समासो विाहितः । विशेषणं विशेष्येणेत्यादिना तु प्रथमाया अपि समासो विहितः, अतश्शेषविभक्तिदुर्लभेत्यत आह । विशिष्येति । विशेषणसमासस्य वस्तुतः प्रथमाविभक्तौ प्रवृत्तावपि प्रथमाविभक्तिं विशिष्य उच्चार्य विधानाभावात् समासविधिषु विशिष्टनिर्दिष्टद्वितीयादिविभक्तिषट्कापेक्षया शेषः प्रथमाविभक्तिरिति भावः । तदाह । प्रथमान्त इत्यर्थ इति ॥ एतच्च भाष्ये स्पष्टम् । अनेकमन्यपदार्थे ॥ प्रथमान्तमिति ॥ शेषग्रहणानुवृतिलभ्यमिदम् । एवञ्च सुप्सुपेति नानुवर्तते । प्रयोजनाभावात् । अनेकं सुबन्तमिति पाठेऽपि प्रथमान्तमित्यर्थः । अन्येति ॥ उपस्थितप्रथमातिरिक्तेत्यर्थः । एवञ्च पञ्चमिर्भुक्तमन्नं यस्य सः पञ्चभुक्तः इति बहुव्रीहिंनिवृत्त्यर्थ 'बहुव्रीहिस्समानाधिकरणानामिति वक्तव्यम्’ इति वार्तिकं यद्भाष्ये स्थितं, यच्च वृष्टे देवे यो गतः सः वृष्टदेव इति बहुव्रीहिनिवृत्त्यर्थं ' अप्रथमाविभक्तयर्थे बहुव्रीहिर्वक्तव्यः' इति वार्तिकन्तदुभयमपि न कर्तव्यमित्याह । अप्रथमाविभक्त्यर्थे बहुत्रीहिरिति समानाधिकरणानामिति च फलितमिति ॥ शेषग्रहणादिति शेषः । शेषग्रहणात् प्रथमान्त इति लभ्यत इति हि भाष्यम् । पञ्चभिर्भुक्तमस्य इत्यत्र च समस्यमानपदयोरेकस्यांप्रथमान्तत्वान्न बहुव्रीहिरिति फलितम् । प्रथमान्तातिरिक्तस्य पदस्यार्थे वतर्मानं समस्यते इत्यर्थाश्रयणादृष्टे देवे गतः इत्यत्रापि न बहुव्रीहिरिति फलितमिति