पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/३९

पुटमेतत् सुपुष्टितम्
संमासप्रकरणम्]
५५३
बालमनोरमा

स्थाली । पीताम्बरो हरिः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न । वृष्टे देवे गतः । व्यधिकरणानामपि न । पञ्चभिर्मुक्तमस्य । 'प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोप:' (वा १३६०) । प्रपतितः पर्ण: प्रपर्णः । नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः । (वा १३६१) । अविद्यमानः पुत्रोऽपुत्रः । “अव्ययानाञ्च उच्चैर्मुख: सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च सप्तम्यन्तं उप्मानञ्च यस्य तस्य पदान्तरेण समासः उत्तरपदलोपश्च भवतीत्यर्थः । कण्ठेस्थ: काळ: यस्य


भावः । तत्र द्वितीयार्थवहुव्रीहिमुदाहरति । प्राप्तमिति ॥ 'गत्यर्थाकर्मक’ इति कर्तरि क्तः । अत्र विग्रहवाक्ये ग्रामकर्मकप्राप्तिकर्तृ उदकमित्येव ग्रामस्य विशेषणतया, विशेष्यत्वेन तु प्राप्तस्य उदकस्य बोधः । समासे तु एकार्थीभावमहिम्ना उदककर्तृकप्राप्तिकर्मीभूतः ग्राम इत्येवंग्रामस्य विशेष्यतया, तद्विशेषणतया तु प्राप्तस्य उदकस्य बोधः । एवमुत्तरत्रापि विशेषणविशेष्यभावव्यत्यासो ज्ञेयः । अथ तृतीयार्थबहुव्रीहिमुदाहरति । ऊढंरथोऽनड्वानिति ॥ ऊढो रथो येनेति विग्रहः । अथ चतुर्थ्यर्थबहुव्रीहिमुदाहरति । उपहृतपशू रुद्रः इति ॥ उपहृतः पशुः यस्मै इति विग्रहः । अथ पञ्चम्यर्थबहुव्रीहिमुदाहरति । उद्धृतौदना स्थालीति । उद्धृतः ओदनः यस्या इति बहुव्रीहिः । अथ षष्ठ्यर्थबहुव्रीहिमुदाहरति । पीताम्बरो हरिरेिति ॥ पीतमम्बरं यस्येति विग्रहः। अथ सप्तम्यर्थबहुव्रीहिमुदाहरति । वीरपुरुषको ग्राम इति ॥ वीराः पुरुषाः यस्मिन्निति विग्रहः । 'शेषाद्विभाषा' इति कप् । अत्र कर्मादीनां समासेनाभिहितत्वात् प्रथमैव। प्रथमार्थे तु नेति ॥ अन्यपदार्थशब्देन प्रथमान्तातिरिक्तद्वितीयाद्यन्तार्थस्यैव विवक्षितत्वादिति भावः । व्यधिकरणानामपि नेति ॥ अनेकं प्रथमान्तमित्युक्त्तेरिति भावः । प्रादिभ्यः ॥ प्रादिभ्यः परं यद्धातुजप्रकृतिकप्रथमान्तं तस्य अन्येन प्रथमान्तेन बहुव्रीहिर्वाच्यः । तत्र बहुव्रीहौ प्रादिभ्यः परस्य उत्तरपदस्य धातुजस्य लोपश्च विकल्पेन वाच्यः इत्यर्थः । अत्र बहुत्रीहिरित्यनुवादः, लोपस्यैव विधिः । प्रपतितः पर्ण इति ॥ प्रकृष्टं पतितं प्रपतितम् । ‘प्रादयो गताद्यर्थे’ इति समासः । प्रपतितं पर्णं यस्मादिति विग्रहः । प्रपर्ण इति ॥ प्रपतितेति पूर्वपदे धातुजस्य उत्तरपदस्य लोपे रूपम्। नञोऽस्त्यर्थानां ॥ नञः परेषामस्त्यर्थवाचिनां सुबन्तानां बहुव्रीहिर्वाच्यः । तत्रास्त्यर्थवाचिनामुत्तरपदभूतानां लोपश्च वा वक्तव्य इत्यर्थः । अविद्यमानः पुत्र इति ॥ न विद्यमान इति नञ्समासः । नञो नलोपः । अविद्यमानः पुत्रो यस्येति विग्रहः । अपुत्र इति ॥ अस्त्यर्थकविद्यमानशब्दस्य लोपे रूपम् । अत्रापि बहुव्रीहिरित्यनुवादः । अव्ययानाञ्चेति ॥ बहुव्रीहिर्वाच्य इति शेषः । उचैर्मुख इति ॥ उच्चैरित्यस्याधिकरणशक्त्तिप्रधानतया सप्तम्यन्तत्वेन प्रथमान्तत्वाभावादप्राप्ते बहुव्रीहौ वचनम् । सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्चेति ॥ सप्तम्यन्तापमानसहिते पूर्वपदे यस्य तत् सप्तम्युपमानपूर्वपदम्, तस्य समस्तपदस्य पदान्तरेण बहुव्रीहिर्वाच्यः । समस्तपदात्मके पूर्वपदे यदुत्तरपदन्तस्य लोपश्च वक्तव्य इत्यर्थः । तत्र सप्तम्यन्तसहितसमस्तपूर्वपदकं बहुव्रीहिमुदाहरति । कण्ठेस्थः काळो यस्य स