पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४३

पुटमेतत् सुपुष्टितम्
समासप्रकरणम्]
५५७
बालमनोरमा


इति भाष्यम् । कर्मधारयपूर्वपदे तु द्वयोरपि पुंवत् । जरच्चित्रगुः । कर्मधारयोत्तरपदे तु चित्रजरद्गवीकः । ' स्त्रिया:' किम् । ग्रामणि कुलं दृष्टिरस्य ग्रामणिदृष्टिः । 'भाषितपुंस्कात्' किम् । गङ्गाभार्यः । 'अनूङ्’ किम् । वामोरूभार्यः ।


इति भाष्योदाहरणान्मास्तु पूर्वपदाक्षेपः । 'स्त्रियाः पुंवत्' इति सूत्रे तदनाक्षेपे किं प्रमाणमित्यत आह । अत एवेति ॥ 'स्त्रियाः पुंवत्' इत्यत्रापि पूर्वपदानाक्षेपादित्यर्थः । द्वन्द्वगर्भेऽभेपीत्यनन्तरं बहुव्रीहाविति शेषः । भाष्यमिति ॥ यद्यपि कृत्स्नभाष्यपरिशोधनायां चित्राजरद्गुरित्युदाहरणं भाष्ये क्वापि न दृश्यते । तथापि चित्राजरद्गुरित्यनन्तरं प्रयोगमिति शेषः । भाष्यमित्यस्य पट्वीमृदुभार्यः इति प्रकृतसूत्रस्थभाष्यमित्यर्थः । सूचयतीति शेषः । 'स्त्रियाः पुंवत्' इति प्रकृतसूत्रभाष्ये हि “पट्वी मृद्यौ भार्ये यस्येति द्वन्द्वगर्भबहुव्रीहौ पट्वीमृदुभार्यः” इत्युदाहृतम् । तत्र पद्वीमृदुशब्दात्मकः द्वन्द्वः पूर्वपदं, न तस्य भाषितपुंस्कत्वमस्तीति न पुंवत्वम् । द्वन्द्रस्य परवल्लिङ्गतानियमात् । तत्र द्वन्द्वे पूर्वपदस्य पट्वीशब्दस्य तु न पुंवत्वम् । न तस्मिपरे पुंवत्वसम्भवः । मृद्वीशब्दस्य तु केवलस्य भाषितपुंस्कत्वात् उत्तरपदपरकत्वाच्च पुंवत्वमिति तदाशयः । 'स्त्रियाः पुंवत्' इत्यत्र पूर्वपदाक्षेपे तु मृदुशब्दस्य पूर्वपदत्वाभावेन पुंवत्त्वाप्रवृत्तेः तदसङ्गतिस्पष्टैव । ततश्च पट्वीमृवीदुभार्य इति भाष्यं चित्राजरद्गुरिति प्रयोगं गमयतीत्यर्थः । कर्मधारयेति ॥जरती चासौ चित्रा चेति कर्मधारयः । 'पुंवत्कर्मधारय' इति जरतीशब्दस्य पुंवत्वान् ङीपो निवृत्तिः । ततश्च जरच्चित्रा गौर्यस्येति कर्मधारयपूर्वेपदत्वे बहुव्रीहौ पूर्वपदस्य जरचित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्वात् टापो निवृत्तिरिति भावः । कर्मधारयोत्तरेति ॥ जरती चासौ गौश्चेतेि कर्मधारये “गोरतद्धितलुकि ' इति टचि अवादेशे “पुंवत्कर्मधारय' इति जरतीशब्दस्य पुंवत्वे ङीपो निवृत्तौ टित्वात् ङीपि जरद्रवीशब्दः । ततश्चित्रा जरद्रवी यस्येति कर्मधारयोत्तरपदके बहुव्रीहौ 'नद्यृतश्च' इति कपि चित्राशब्दस्य 'स्त्रियाः पुंवत्' इति पुंवत्वे चित्रजरद्गवीकः इति रूपमित्यर्थः । स्त्रियाः किमिति ॥ षष्ठ्यन्तस्य प्रश्ः । ग्रामणि कुलं दृष्टिरस्य ग्रामाणिदृष्टिरिति ॥ ग्रामणीशब्दस्य नपुंसकत्वे 'ह्रस्वो नपुंसके' इति ह्रस्वे ग्रामणिशब्दः इदन्तः । कुलशब्दो नपुंसकस्फोरणार्थः । दृष्टिशब्देन नेत्रस्थानापन्नं विवक्षितम् । ग्रामणि दृष्टिरस्येत्येव विग्रहः । 'स्त्रियाः’ इत्यभावे ग्रामणीशब्दस्य पुंवत्वे नपुंसकह्रस्वनिवृत्तौ ग्रामणीकुलमिति स्यादिति भावः । गङ्गाभार्य इति ॥ अत्र गङ्गाशब्दस्य नित्यस्त्रीलिङ्गतया भाषितपुंस्कत्वाभावात् न पुंवत्त्वमिति भावः । वामोरूभार्य इति ॥ वामौ सुन्दरौ ऊरू यस्येति बहुव्रीहिः । 'संहितशफलक्षणवामादेश्च' इत्यूङ् । तदन्तस्य पुंवत्वे ऊङो निवृत्तौ वामोरुभार्य इति पूर्वपदमुदन्तमेव स्यादिति भावः ।


१. भाष्ये तु प्रकृतसूत्रे 'पट्वीमृदुभार्यः' इत्युपलभ्यते । तथा च 'इति' इत्यस्याग्रे 'प्रयोगं सूचयति' इति शेषः पूरणीयः ।