पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४४

पुटमेतत् सुपुष्टितम्

लघुः पाठ्यांशः

५५८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

'समानाधिकरणे ' किम् । कल्याण्याः माता कल्याणीमाता । 'स्रियाम्' किम् । कल्याणी प्रधानं यस्य सः कल्याणीप्रधानः । पूरण्यां तु ।

८३२ । अप्पूरणीप्रमाण्योः । (५-४-११६)

पूरणार्थप्रत्ययान्तं यत्स्त्रीलिङ्गं तदन्तात्प्रमाण्यन्ताच्च बहुव्रीहेरप्स्यात् । कल्याणी पश्चमी यासां रात्रीणां ता: कल्याणीपञ्चमा रात्रयः । स्त्री प्रमाणी यस्य सः स्त्रीप्रमाण: । ' पुंवद्भावप्रतिषेधोऽप्प्रत्ययश्च प्रधानपूरण्यामेव' (वा ३३५९-३९१०) । रात्रिः पूरणीवाच्या चेत्युक्तोदाहरणे मुख्या । अन्यत्र तु ।


. स्त्रियां किमिति । सप्तम्यन्तस्य प्रश्रः । कल्याणी प्रधानं यस्य स कल्याणी प्रधान इति ॥ अत्र प्रधानशब्दस्य नित्यनपुसकत्वात् कल्याणीशब्देन सामानाधिकरण्येऽपि स्त्रीलिङ्गत्वाभावात्तस्मिन्परे पुंवत्त्वन्नेति भावः । पूरण्यां त्विति ॥ पुंवत्त्वनिषधेोदाहरणविशेषो वक्ष्यत इति शेषः । अप्पूरणी ॥ अबिति छेदः । 'बहुव्रीहौ सक्थ्यक्ष्णो ' इत्यतो बहुव्रीहावित्यनुवृत्तं पूरणीप्रमाणीभ्यां विशेष्यते, तदन्तविधिः, स्त्रीलिङ्गनिर्देशात् पूरणप्रत्ययान्तं स्रीलिङ्गमिह गृह्यते । तदाह । पूरणार्थेत्यादिना ॥'अप स्यादिना ॥' समासान्तस्तद्धित इत्यपि बोध्द्यम् । पञ्चमीति ॥ पञ्चानां पूरणीत्यर्थः । 'तस्य पूरणे डट' 'नान्तादसङ्ख्यादेः’ इति तस्य मडागमः । टित्त्वात् ङीप् । कल्याणीपञ्चमा रात्रय इति ॥ इह बहुव्रीहौ कृते पञ्चमीशब्दे पूरणार्थप्रत्ययान्ते परे कल्याणीशब्दस्य पुंवत्वनिषेधः, अप् समासान्तस्तद्धितः, टाप्, 'यस्येति च' इतीकारलोपः । ननु पञ्चमी रात्रिरन्यपदार्थप्रविष्टा वा नवा । नाद्यः । । तस्यास्समस्यमानपदार्थत्वेन तदन्यत्वानुपपत्तेः । नान्त्यः । पञ्चम्या रात्रोरन्यपदार्थप्रवेशाभावे कल्याणीपञ्चमा इति समासात्पञ्चमीं रात्रिं विना चतुर्णामेव बोधनापत्तौ पञ्चमपदस्यासङ्गत्यापादनादिति चेत् । सत्यम् । पञ्चानां रात्रीणां उद्भूतावयवभेदस्समुदाय एवान्यपदार्थः । तत्र पञ्चम्या रात्रेः प्रवेशेऽपि तद्धटितसमुदायस्यान्यपदार्थत्वं न विरुध्द्यते । समुदायस्यावयवापेक्षया अन्यत्वात् । रात्रय इति बहुवचनन्तु अवयवबहुत्वापेक्षम् । यथाचै तत्तथा सर्वनामसंज्ञासूत्रे प्रपञ्चितम् । अथ प्रमाण्यन्तादब्विधेरुदाहरणमाह । स्त्रा प्रमाणी यस्यस स्त्रीप्रमाण इति ॥ प्रमाणशब्दोऽत्र करणल्युडन्तः, विशेष्यनिघ्नः, टित्वात् ङीप् । बहुव्रीहौ सति अप्रत्यये “यस्येति च' इति ईकारलोपे स्त्रीप्रमाण इति रूपम् । पूर्वपदस्य तु नित्यस्त्रीलिङ्गत्वादभाषितपुंस्कत्वान्न पुवत्त्वप्रसक्तिः । प्रधानपूरण्यामेवेति ॥ 'स्त्रियाः पुंवत्' इति सूत्रे “ 'अप्पूरणी' इति सूत्रे च प्रधानपूरणीग्रहणं कर्तव्यमिति भावः । ननु कल्याणीपञ्चमाः रात्रय इत्यत्र पञ्चम्या रात्रेः समस्यमानपदार्थत्वात् कथं प्राधान्यं बहुव्रीहेरन्यपदार्थप्रधानत्वादित्यत आह । रात्रि पूरणीवाच्या चेत्युक्तोदाहरणे मुख्येति ॥ कल्याणीपञ्चमा: रात्रय इत्युक्तोदाहरणे पञ्चानां पूरणी रात्रिः समस्यमानपञ्चमीपदार्थत्वेऽपि अन्यपदार्थसमुदायघटकतया बहुव्रीहिसमासवाच्यापि भवतीति कृत्वा