पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४८

पुटमेतत् सुपुष्टितम्
५६२
[बहुत्रीहि
सिद्धान्तकौमुदीसहिता


तद्धिते' (वा ३९२८) । हस्तिनीनां समूहो हास्तिकम्। 'अढे' किम् । रौहिणेयः। 'स्रीभ्यो ढक्' (सू ११२३) इति ढोऽत्र गृह्यते । 'अग्रेर्ढक्' (सू १२३६) । इति ढकि तु पुंवदेव । अग्नायी देवता अस्य स्थालीपाकस्य आग्नेयः । सपत्नीशब्दस्त्रिधा । शत्रुपर्यायात्सपत्नशब्दाच्छार्ङ्गरवादित्वान्ङीन्येकः । समानः पतिर्यस्या इति विग्रहे विवाहनिबन्धनं पतिशब्दमाश्रित्य नित्यस्त्रीलिङ्गो द्वितीयः ।


भावः एकत्वमियत्र एकशब्दस्य गुणवचनत्वाभावात् 'त्वतलोर्गुणवचनस्य' इत्यप्राप्तं पुंवत्त्वमत्र विधीयते इत्युक्तं सङ्गच्छते । सखीत्वमित्यादि तु असाध्वेवेति शब्देन्दुशेखरे विस्तरः । ननु कृतः अर्थः कृत्यं या सा कृतार्था, तस्याः भावः कृतार्थतेत्यत्र कथं पुंवत्वम् । कृतार्थ शब्दस्म समासत्वेन उक्तगुणवचनत्वाभावादित्यत आह । शरदः इति ॥ दृढभक्तिरित्यत्रानुपदोक्तरीत्या कृतः अर्थः येन तत् कृतार्थमिति सामान्याभिप्रायं कृतार्थशब्दं प्रथमतो व्युत्पाद्य तस्मादविवक्षितलिङ्गात् तत्प्रत्ययो व्युत्पाद्य इति भावः । भस्याढे इति ॥ ढभिन्ने तद्धिते परे स्त्रियाः पुंवत्वं वक्तव्यमित्यर्थः । परिगणितेष्वनन्तर्भावाद्वचनम् । हास्तिकमिति ॥ 'तस्य समूहः’ इत्यधिकारे 'अचित्तहस्तिधेनोः’ इति ठक् । ठस्येकः पुंवत्वे सति नान्तलक्षणङीपो निवृत्तिः । 'नस्तद्धिते' इति टिलोप इति भावः । नच पुंवत्वाभावेऽपि 'यस्येति च' इति ईकारलोपे टिलोपे च हास्तिकमिति सिद्धमिति वाच्यम् । लोपस्याभीयत्वेनासिद्धतया स्थानिवत्वेन च तद्वितपरकत्वाभावेन टिलोपानापत्तेः । “ठक्छसोश्च' इति पुंवत्वादेव सिद्धिस्त्वनाशङ्क्या । 'भवतष्ठक्छसौ' इति ठक एव तत्र ग्रहणात् । रौहिणेय इति ॥ 'वर्णादनुदात्तात्' इति रोहितशब्दात् ङीप् । रोहिण्याः अपत्यमित्यर्थे 'स्रीभ्यो ढक्’ एयादेशः, नकारश्च । 'भस्य' इति पुंवत्वे ङीप्रकारयोः निवृत्तिस्यादिति भावः । गृह्यते इति ॥ व्याख्यानादिति भावः । अग्नायीति ॥ अग्रेः स्त्री अग्नायी । 'वृषाकप्यग्नि' इति ङीप् । अग्नेरिकारस्य ऐकारादेशः । अग्नायी देवता अस्येत्यर्थे 'अग्नेर्ढ्क्' इति ढक् । प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणात् ततो ढस्य एयादेशः । पुंवत्वे सति ङीबैत्त्वनिवृत्तौ अग्नि एय इति स्थिते 'यस्येति च' इति इकारलोपे आदिवृद्धौ अग्नेय इति रूपम् । पुंवत्वनिषेधे तु आग्नायेय इति स्यादिति भावः । वस्तुतस्तु अन्नित्वं पुंसि प्रवृत्तिनिमित्तं, स्त्रियान्तु अग्निसम्बन्ध इति प्रवृत्तिनिमित्तभेदादेवात्र न पुंवत्वमिति बोध्यम् । सपत्नीशब्दास्रिधेति ॥ व्युत्पादनभेदादिति शेषः । शत्रुपर्यायादिति ॥ "रिपौ वैरिसपत्नीरिद्विषद्वेषणदुर्हृदः” इति कोशादिति भावः । अयं भाषितपुंस्कः । विवाहनिबन्धनमिति ॥ विवाहजनितसस्कारविशेषनिमित्तकमित्यर्थः । “पतित्वं सप्तमे पदे” इत्यादिस्मरणादिति भावः । आश्रित्येत्यनन्तरं प्रवृत्त इति शेषः । समानः पतिः यस्या इति बहुव्रीहिः। 'नित्यं सपत्न्यादिषु' इति निपातनात् सभावः, ङीप्, नत्वञ्च । नित्यस्त्रीलिङ्ग इति ॥ अन्यपदार्थस्य स्त्रीत्वे सत्येव विवाहनिबन्धनपतिशब्दस्य सभावादिविधानादिति भावः ।