पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/४९

पुटमेतत् सुपुष्टितम्
समासप्रकरणम्]
५६३
बालमनोरमा

स्वामिपर्यायपतिशब्देन भाषितपुंस्कस्तृतीयः । आद्ययो: शिवाद्यण् । सपत्न्या अपत्यं सापत्नः । तृतीयात्तु लिङ्गविशिष्टपरिभाषया पत्युत्तरपदलक्षणो ण्य एव न त्वण् । शिवादौ रूढयोरेव ग्रहणात् सापत्यः । 'ठक्छसोश्च' (वा ३९२९) । भवत्याश्छात्राः भावत्काः, भवदीया: । एतद्वार्तिकम् 'एकतद्धिते च' (सू


"पतिर्नाम धवः” इति कोशादिति भावः । आद्ययोरिति ॥ शत्रुपर्यायं विवाहनिबन्धनञ्च पतिशब्दमाश्रित्य प्रवृत्तयोस्सपत्नीशब्दयोरित्यर्थ । सापत्नः इति ॥ सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा “स्त्रीभ्यो ढक्' इति ढकि प्राप्ते 'शिवादिभ्योऽण् ’ इत्यणि आद्यस्य सपत्नीशब्दस्य भाषितपुंस्कतया पुंवत्वे ङीपो निवृत्तौ सापत्न्न इति रूपम् । नतु नकारस्यापि निवृत्तिः । शत्रुपर्यायसपत्नशब्दस्य अव्युत्पन्नप्रातिपदिकतया तत्र नकारस्य स्रीत्वनिमित्तकत्वाभावात्, द्वितीयस्य तु सपत्नीशब्दस्य ङीब्नत्वाभ्याम् उत्पन्नस्य शिवाद्यणि कृते भाषितपुंस्कत्वाभावात् न पुंवत्वम्, किन्तु ङीपो ‘यस्येति च' इति लोपे. सापत्न इति रूपम् । सति तु पुंवत्वे ङीब्नकारयोः निवृत्तौ सापत इति स्यात् । तृतीयात्त्विति ॥ स्वामिपर्यायं पतिशब्दमाश्रित्य प्रवृत्तात् सपत्नीशब्दात् पत्युत्तरपदलक्षणो ण्य एवेत्यन्वयः । सपत्न्याः अपत्यमित्यर्थे 'तस्यापत्यम्' इत्यणं बाधित्वा 'दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः इति ण्य एवेत्यन्वयः । ननु सपत्नीशब्दो न पत्युत्तरपद इत्यत आह । लिङ्गविशिष्टपरिभाषयेति ॥ एवशब्दस्य व्यावर्त्यमाह । न त्वणिति ॥ ननु ण्यप्रत्ययस्यापि शिवाद्यण् अपवाद इत्यत आह । शिवादौ रूढयोरेवेति ॥ शत्रुपर्यायं पतिशब्दमाश्रित्य प्रवृत्तः सपत्नशब्दः शत्रौ केवलरूढः । विवाहनिबन्धनं पतिशब्दमाश्रित्य प्रवृत्तस्तु विवाहकर्तरि योगरूढः । पाति रक्षतीति योगस्यापि सत्त्वात् । स्वामिपर्यायन्तु पतिशब्दमाश्रित्य प्रवृत्तः केवलयौगिकः । शिवादौ रूढयोरेव ग्रहणम्, नतु केवलयौगिकस्य । योगाद्रूढेर्बलवत्त्वादिति भावः । ततः किमित्यत आह । सापत्य इति ॥ स्वामिपर्यायपतिशब्दघटितसपत्नीशब्दस्य भाषितपुंस्कत्वात् पुंवत्त्वे सति ङीब्नत्वयोर्निवृत्तौ 'यस्येति च' इतीकारलोपः । सापत्य इति रूपमित्यर्थः । ठक्छसोश्चेति ॥ वार्तिकमेतत् । एतयोः परतः पुंवत्वं वक्तव्यमिति शेषः । अभत्वादप्राप्तौ वचनम् । भावत्काः , भवदीयाः इति ॥ 'तस्येदम्’ इत्यधिकारे 'भवतष्ठक्छसौ' इति भवतीशब्दात् ठक्छसौ । लिङ्गविशिष्टस्यापि ग्रहणात् तत्र ठकि इकादेशात्प्राक् ठावस्थायामेव पुंवत्वे इकादेशं बाधित्वा 'इसुसुक्तान्तात् कः’ इति कादेशः । नच इकादेशे सति भत्वात् 'भस्याढे तद्धिते ' इति पुंवत्वे कृते इकस्य स्थानिवत्वेन ठकात् 'इसुक्तान्तात्’ इति कादेशे भावत्क इति रूपसिद्धौ किं ठग्ग्रहणेनेति वाच्यम् । इकादेशे कृते हि मथितं पण्यमस्य माथितिकः इत्यत्रेच अल्विधितया स्थानिवत्त्वाभावेन सन्निपातपरिभाषया इकादेशानापतेः । अतष्ठग्ग्रहणम् । भवतीशब्दाच्छसि। तु 'सिति च' इति पदत्वेन भत्वस्य बाधात् 'भस्याढे' इत्यप्राप्ते पुंवत्वे अनेन पुंवत्वम् । एतदिति ॥ 'ठक्छसोश्च' इति वार्तिकमित्यर्थः । एकतद्धिते चेति ॥ एकशब्दस्य तद्धिते उत्तरपदे च परे