पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५०

पुटमेतत् सुपुष्टितम्
५६४
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता


१०००) इति सूत्रश्च न कर्तव्यम् । 'सर्वनाम्रो वृत्तिमात्रे पुंवद्भावः’ इति भाष्यकारेष्ट्या गतार्थत्वात् । सर्वमयः । सर्वकाम्यति । सर्विका भार्या यस्य सर्वकभार्यः । सर्वकप्रिय: इत्यादि । पूर्वस्यैवेदम्। 'भस्त्रैषाजाज्ञाद्वा-' (सू ४६६) इति लिङ्गात् । तेनाकच्येकशेषवृत्तौ च न । सर्विका । सर्वाः । कुक्कुट्यादीनामण्डादिषु' (वा ३९३४) । कुक्कुट्या अण्डं कुक्कुटाण्डम् । मृग्याः पदं मृगपदम् । मृगक्षीरम् । काकशाबः ।


ह्रस्वस्स्यादिति तदर्थः । एकस्याः भावः एकत्वं, एकता, एकस्याश्शाटी एकशाटी । वृत्तिमात्रे इति ॥ कृत्तद्धितादयो वृत्तयः मात्रशब्दः कार्स्न्ये । 'स्त्रियाः पुंवत्' इत्यादिसूत्रगतनिमित्ताभावेऽपि भवति । भाष्यकारेष्ट्येति ॥ भाष्यकारवचनेनेति यावत् । इदश्च “दक्षिणोत्तराभ्याम्' इति सूत्रे भाष्ये स्पष्टम् । गतार्थत्वादिति ॥ निवृत्तप्रयोजनकत्वात् इति भावः । एतत्प्रयोजनस्य 'सर्वनाम्नः' इति वचनेनैव सिद्धत्वादिति यावत् । सर्वेनाम्नो वृत्तिमात्रे इत्यस्य तद्धितवृत्तौ उदाहरति । सर्वमय इति ॥ सर्वस्यागत इत्यर्थः । ‘तत आगतः’ इत्यधिकारे 'मयट् च' इति मयट्, “सर्वनाम्नः’ इति पुंवत्वम् । चिन्मयमित्यादिवदत्यन्तस्वार्थिको वा मयट् । अथ सनाद्यन्तधातुवृत्तावुदाहरति । सर्वकाम्यतीति ॥ सर्वमात्मन इच्छतीत्यर्थे 'काम्यञ्च' सर्वाशब्दात् काम्यच् । 'सर्वनाम्नः’ इति पुंवत्वम् । “सनाद्यन्ताः’ इति धातुत्वाल्लडादि । मयट्काम्यचोस्रतसावित्यादिपरिगणितेष्वनन्तर्भावात्तेनात्र पुंवत्वन्न सिध्द्यतीति भावः । तद्धितवृत्तौ उदाहरणान्तरमाह । सर्वकभार्य इति ॥ समासवृत्तिरेवैषा । सर्वकप्रिय इति ॥ सर्वा प्रिया यस्येति विग्रहः । समासवृत्तिरियम् । प्रियादिपर्युदासो रूपवतीत्यादौ उपयुज्यत इति भावः । वस्तुतस्तु एकशब्दे अकच्प्रत्यये 'प्रत्ययस्थात्’ इति इत्त्वे एकिका, तस्याः भावः एकिकत्वम् । अत्र पुंवत्वे टाप इत्त्वस्य च निवृत्तौ एककत्वमिति स्यात् । इकारो न श्रूयेत। इत्वनिमित्तस्य टापो निवृत्तत्वात् । पाचिकाशब्दात् जातीयरि पाचकजातीयेतिवत् ह्रस्वे सति स्थानिवत्वेन टापस्सत्त्वात् प्राप्तजीविकवदित्वश्रवणमिति फलभेदसत्त्वात् 'एकतद्धिते च' इति न गतार्थमित्याहुः । ननु तदितरा तदन्येत्यादावुत्तरपदस्य सर्वनामत्वात् पुंवत्वं स्यादित्यत आह । पूर्वस्यैवेदमिति ॥ वृत्तिप्रविष्टानेकभागानाम्मध्द्ये किञ्चिदपेक्षया पूर्वस्यैवेदं सर्वनाम्नः पुंवत्त्वविधानमित्यर्थः । भस्त्रैषाजाज्ञाद्वेति लिङ्गादिति ॥ 'भस्त्रैषा' इति सूत्रेण एषा द्वा इत्येतयोस्साकच्कयोरपि कात्पूर्वस्य इत्वविधानम्, अन्यथा निर्विषयं स्यात् । तद्धितवृत्तौ तयोः सर्वनामतया पुंवत्वनियमादिति भावः । अकचि तद्धितवृत्तौ उदाहरति । सर्विकेति ॥ सर्वाशब्दात् साकच्काट्टापि 'प्रत्ययस्थात्' इति इत्त्वे पुंवत्वे टाबित्त्वयोः निवृत्तिस्यादिति भावः । एकशेषवृत्तावुदाहरति । सर्वा इति ॥ टाबन्तस्य प्रथमाबहुवचनमिदम् । पुवत्वे टापो निवृत्तिस्यादिति भावः । 'कुक्कुट्यादीनामण्डादिषु' इति पुंवत्वं वक्तव्यमिति शेषः । असमानाधिकरणार्थमिति सूचयन् षष्ठीसमासमुदाहरति । कुक्कुट्या


१.अत्राष्टाद्याय्याम् अन्यवार्तिकानामिवात्र प्रकरणे पाठाभावादिति भाव:।