पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५१

एतत् पृष्ठम् परिष्कृतम् अस्ति
समासप्रकरणम्]
५६५
बालमनोरमा

८३७ । क्यङ्मानिनोश्च । (६-३-३६)

एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां काच्चिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः।

८३८ । न कोपधायाः । (६-३-३७)

कोपधायाः स्त्रियाः न पुंवत् । पाचिकाभार्यः । रसिकाभार्यः । मद्रिका यते । मद्रिकामानिनी । * कोपधप्रतिषेधे तद्धितवुग्रहणम्’ (वा ३९३१) । नेह । पाका भार्या यस्य स पाकभार्य ।

अण्डं कुक्कुटाण्डमिति ॥ पुंवत्वेन जातिलक्षणडीषो निवृत्तिरिति भावः । एव मग्रेऽपि । मृगक्षीरमिति । मृग्याः क्षीरमिति विग्रहः । काकशाब इति ॥ काकायाश्शाब इति विग्रहः । “पोतः पाकोऽर्भको डिम्भः पृथुकश्शाबकशिशुः' इत्यमरः । क्यड्मानिनोश्च ॥ एतयोरिति ॥ क्यङि . मानिनि, उत्तरपदे च परत इत्यर्थ । एनीवेति ॥ एता चित्रवर्णा । * चित्रकिम्मीरकल्माषशबलैताश्च कर्बुरे” इत्यमरः । एत शब्दः श्वेतपर्याय इति याज्ञिकाः । “वर्णादनुदात्तात्” इति डीप् नकारश्च । ‘उपमाना दाचारे' इत्यनुवर्तमाने 'कर्तुः क्यङ् सलोपश्च' इति एनीशब्दात् क्यङि पुंवत्वे डीन्नत्वयो र्निवृत्तौ, “अकृत्सार्वधातुकयोः' इति दीर्घ एतायते इति रूपमिति भावः । इयेनीवेति ॥ श्येतशब्दः श्वेतपर्याय । “शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डुरा ” इति अमरः । क्यडादि पूर्ववत् । ननु “स्त्रिया पुंवत्' इत्येव मानिनीत्युत्तरपदे परतः पुंवत्वसिद्धेः मानिन्ग्रहणं किमर्थमित्याशङ्कय मानिन्ग्रहणमसमानाधिकरणार्थ अस्त्रीलिङ्गार्थञ्चत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति । स्वभिन्नामिति । दर्शनीयमानिनीति ॥ दर्शनीयामिति द्वितीयान्ते उपपदे सुप्यजातौ णिनिरित्यनुवृत्तौ मन इति णिनिप्रत्ययः, उपपदसमासः , सुब्लुक्, असमा नाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्वे टापो निवृत्तौ ‘ऋत्रेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम् । यात्वात्मानमेव दर्शनीयाम्मन्यते तस्या दर्शनीयायाः “स्त्रियाः पुंवत्' इत्येव पुंवत्वं सिद्धमिति ध्वनयितुं स्वभिन्नामित्युक्तम् । एकस्या एव दर्शनीयायाः मनधात्वर्थे प्रति कर्मत्वकर्तृत्वसम्भवेऽपि वास्तवाभेदेन मानिनीशब्दसामानाधिकरण्यसत्त्वादिति भावः । अथ स्त्रीलिङ्गे उत्तरपदे उदाहरति । दर्शनीयामिति ॥ त्रियमित्यनन्तरमात्मानमिति शेषः । आत्मानं यः दर्शनीयां स्त्रियम्मन्यते सः दर्शनीयमानी चैत्रः इत्यन्वयः । अत्र उत्तर पदवाच्यस्य मानिनः वस्तुतो दर्शनीयस्त्रीभेदे ऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुलिङ्गत्वात् तस्मिन् परे पुंवत्वन्न प्राप्तमित्यनेन तद्विधिरिति भावः । न कोपधायाः ॥ पाचिकाभार्य इति । पाचिका भार्या यस्येति विग्रहः । पचो ण्वुल् । अकादेशटाबित्त्वानि, पुंवत्त्वनिषेधश्च । पुवत्वे टाबित्त्वयोर्निवृत्तिस्यात् ।