पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६६
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८३९ । संज्ञापूरण्योश्च । (६-३-३८)

अनयोर्न पुंवत् । दत्ताभार्यः । दत्तामानिनी । दानक्रियानिमित्तः स्त्रियां पुंसि च संज्ञाभूतोऽयमिति भाषितपुंस्कत्वमस्ति । पञ्चमीभार्यः । पञ्चमीपाशा ।

८४० । वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । (६-३-३९)

वृद्धिशब्देन विहिता या वृद्धिस्तद्धेतुर्यस्तद्धितोऽरक्तविकारार्थस्तदन्ता स्री न पुंवत् । स्रौघ्नीभार्यः । माधुरीयते । माधुरीमानिनी । *वृद्धिनिमित्तस्य'

रसिकेति ॥ रसोऽस्या अस्तीति रसिका, “अत इनिठनौ' इति ठन् । ठस्येकः, टाप् पुंवत्वनिषेधः । पुंवत्वे तु टापो निवृत्तिस्यात् । मद्रिकायते इति ॥ मद्राख्ये देशविशेषे भवा मद्रिका ‘मद्रव्रज्योx कन्’ टाप्, इत्त्वम् । मद्रिकेवावरतीत्यर्थ । ‘क्यङमानिनोश्च' इति पुंवत्वं प्राप्तमिह निषिद्यते । मद्विकामानिनीति ॥ मद्रिकाम्मन्यत इत्यर्थे 'मनश्च' इति णिनि । उपपदसमासः। इहापि ‘क्यङ्मानिनोः' इति पुंवत्त्वं प्राप्तान्निषिध्द्यते । उभयत्रापि पुंवत्त्वे टाबित्वयोर्निवृत्तिस्यात् । तद्धितबुग्रहणमिति ॥ ‘न तद्धितबुकोपधायाः'इति सूत्रं पठनीयमिति यावत् । तद्धितसम्बन्धी वुसम्बन्धी च यः ककारः तदुपधायास्त्रियाः न पुंवत्त्वमिति फलति । मद्रिकायते इति तद्धितकोपधोदाहरणम् । पाचिकाभार्य इति तु वुसम्बन्धिकोपधो दाहरणम् । तद्धितवुग्रहणस्य प्रयोजनमाह । नेहेति ॥ पाकेति ॥ “अर्भकपृथुकपाका वयसि ' इत्युणादिषु कप्रत्ययान्तो निपातितः । अयं ताद्वितस्य बुको वा न ककार इति नात्र पुंवत्त्वनिषेध इति भावः । ननु दत्ताशब्दस्य संज्ञात्वेन एकद्रव्यनिवेशितया भाषितपुंस्कत्वा भावात् “स्त्रियाः पुंवत्' इत्यस्य प्रसत्तेरेवाभावात् किन्तन्निषेधनेत्यत आह । दानक्रिया निमित्त इति ॥ दत्तशब्दोऽयं डित्थादिशब्दवन्न, किन्तु दानक्रियां पुरस्कृत्यैव स्त्रियां पुंसि च संज्ञाभूतः प्रवृत्तः, अतस्तस्य भाषितपुंस्कत्वात् पुंवत्वे प्राप्ते निषेधोऽयमित्यर्थः । पूरण्या पुंवत्वनिषेधमुदाहरति । पञ्चमीभार्य इति ॥ पञ्चमी भार्या यस्येति विग्रहः । अत स्त्रियाः पुंवत्' इति प्राप्तं निषिध्द्यते । पञ्चमीपाशेति ॥ निन्दिता पञ्चमीत्यर्थः । याप्ये पाशप् । अत्र “तसिलादिषु' इति प्राप्तं पुंवत्वन्निषिध्द्यते । वृद्धिनिमित्तस्य च ॥ वृद्धे र्निमित्तं हेतुरिति विग्रहः । रक्तश्च विकारश्चेति समाहारद्वन्द्वः । ततो नञ्तत्पुरुषः । रक्त विकारभिन्नेऽर्थे विद्यमानस्येत्यर्थः । वृद्धिशब्देन विहितैव वृद्धिरिह विवक्षिता । व्याख्यानात् । तदाह । वृद्धिशब्देनेत्यादिना ॥ तदन्तेति ॥ प्रत्यग्रहणपरिभाषालभ्यम् । स्रौन्घीति ॥ स्रुघ्नो देश इत्यर्थः । तत्र भव इत्यण् । “यस्येति च' इति अकारलोपः । णित्वादादिवृद्धिः , टिड्ढाणञ्' इति डीप् । स्रौघ्नी भार्या यस्येति विग्रह स्त्रयाः पुंवत्' इति प्राप्तमिह निषिध्द्यते । माधुरीयते, माधुरीमानिनीति ॥ मधुरायां भवा माधुरी, तत्र भवः इत्यण्, “यस्येति च' इत्याकारलोपः, आदिवृद्धिः, 'टिड्ढ' इति ङीप् । माधुरीवाचरतीत्यर्थे कर्तुः क्यङ्’ इति क्यङ् । “सनाद्यन्ताः' इति धातुत्वाल्लडादि, माधुरीयते इति । माधुरीं