पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/५४

एतत् पृष्ठम् परिष्कृतम् अस्ति
५६८
[बहुव्रीहि
सिद्धान्तकौमुदीसहिता

८४१ । स्वाङ्गाच्चेतः । (६-३-४०)

स्वाङ्गाद्यः ईकारस्तदन्ता स्त्री न पुंवत् । सुकेशीभार्यः । “स्वाङ्गात् किम् । पटुभार्यः । *ईतः' किम् । अकेशभार्यः । * अमानिनीति वक्तव्यम् (वा ३९३२) । सुकेशमानिनी ।

८४२ । जातेश्च । (६-३-४१)

जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् । शूद्राभार्यः । ब्राह्मणीभार्यः । सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्तिकमित्यत्र “भस्याढे (वा ३९२८) इति तु भवत्येव ।


साहित्य तदभावादित्यर्थः । “वृद्धिस्ताद्धितस्य’ इत्येतावत्युक्त्तेऽपि निमित्तसम्वन्धे वृद्धेरिति षष्ठीमाश्रित्य *वृद्धिनिमित्ततद्धितस्य ? इत्यर्थलाभे सति निमित्तग्रंहणात् फलोपहितानिमित्तत्वं विवक्षितमिति विज्ञायत इति भावः । यद्यप्यैजागमसिद्धवृद्धिं प्रति अण्प्रत्ययः , फलोपहितमेव निमित्तम् । तथापि वृद्विशब्देन विहितां वृद्धिं प्रति फलोपहितन्निमित्तं न भवत्येवेति न दोषः । वृद्विशब्देन विहितैव वृद्धिरिह गृह्यत इत्यत्रापि इदमेव निमित्तग्रहणं लिङ्गम् । अन्यथा ऐजा गमादत्र फलोपहितनिमित्तत्वस्यापि सत्त्वात् तन्निमित्तग्रह्णन्निष्फलं स्यात् । विस्तरतु शब्देन्दु शेखरे द्रष्टव्यः । स्वाङ्गाधेतः ॥ ईत इति च्छेदः । तदाह । स्वाङ्गाद्य ईंकारः इति ॥ सुकेशीभार्य इति । सु शोभनाः केशाः यस्याः सा सुकेशी 'स्वाङ्गाच्चोपसर्जनात्' इति डीष् । “स्त्रियाः पुंवत्' इति प्राप्तस्य निषेधः । पटुभार्य इति ॥ पट्टी भार्या यस्येति विग्रहः । पटुत्वस्य अस्वाङ्गत्वान्न पुंवत्वनिषेधः । किन्तु पुंवत्वे “वोतो गुणवचनात्’ इति डीषो निवृत्तिरिति भावः । अकेशभार्य इति ॥ अविद्यमानाः केशाः यस्यास्सा अकेशा नोऽस्त्यर्थानाम्' इति बहुव्रीहिः, विद्यमानशब्दस्य लोपश्च । स्वाङ्गत्वेऽपि न डीष् । सहनञ्विद्यमान' इति निषेधात् । अतष्टाबेव । अकेशा भार्या यस्येति विग्रहः । स्वा ङ्गत्वेऽपि ईकाराभावान्नपुंवत्वनिषेधः । किन्तु पुंवत्वे टापो निवृत्तिरिति भावः । अमा निनीति ॥ स्वाङ्गाच्चेति निषेधः । मानिन्शब्दे परतः न भवतीति वक्तव्यमित्यर्थः । सुकेश मानिनीति ॥ सुकेशीं मन्यत इति अर्थे “मनश्च' इति णिनिः, उपधावृद्धिः, उपपदसमासः । सुब्लुक्, पुंवत्त्वे डीषो निवृत्तिरिति भावः । जातेश्च ॥ ईत इति अस्वरितत्वान्नानुवर्तत इत्यभिप्रेत्य आह । जातेः परो यः स्रीप्रत्यय इति ॥ शूद्राभार्य इति ॥ ‘शूद्रा चामह त्पूर्वा' इति जातिलक्षणडीषोऽपवादष्टाप् । पुंवत्वनिषेधान्न टापो निवृत्तिः । ब्राह्मणीभार्य इति ॥ पुंवत्त्वनिषेधात् न शाङ्गेरवादिडीनो निवृत्तिः । ननु हस्तिनीनां समूहो हास्तिक मित्यत्र * अचित्तहस्ति’ इति ठकि हस्तिनीशब्दस्य “भस्याढे' इति कथं पुंवत्त्वं “जातेश्च' इति निषेधात् इत्यत आह । सौत्रस्यैवायन्निषेध इति ॥ सूत्रविहितस्येत्यर्थः । 'भस्याढे'